Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ सूत्र 35). स्त्रोपज्ञभाष्य टीकालङ्कृतम् 425 व्यावर्तयति बन्धं च विशेषयतीति / न जघन्यगुणानामिति प्रकृतप्रतिषेधस्तं ब्यावर्तयति, यथाऽधिकृतं च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येविशेषणार्थः, ततश्च व्यावृत्ते प्रतिषेधे बन्धे च विशेषिते घधिकादिगुणानां बन्धः सिद्धो निरपवाद इति // आगमगाथासंवादी चायं सूत्रचतुष्टयाथे:"निद्धस्स निद्धेण दुआधिएण, लुक्खस्स लुक्खेण दुआधिएण / निद्धस्स लुक्खेण उवेति बंधो, जहण्णवज्जो विसमे समे वा ॥१॥"-प्रज्ञा० गा० 200 गुणवैषम्ये सदृशानां घधिकादिगुणानां तु बन्धो भवतीत्यस्य वाचकं गाथाशकलमाद्यं, स्निग्धस्य स्निग्धेन सह रूक्षस्यापि रूक्षेण सहेति, ततश्च "गुणसाम्ये सदृशानां" (सू० 34) भवति बन्ध इत्येतत् सूत्रं लब्धम् / अथ स्निग्धरूक्षयोः परस्परेण कथमित्याह-पाश्चात्यमर्धम् / एतेन च "स्निग्धरूक्षत्वाद् बन्धः" (मू० 32), "न जघन्यगुणानाम्" (सू० 33) इति सूत्रद्वयपरिग्रहः / स्निग्धगुणरूक्षयोश्च जघन्यगुणवर्जः परस्परेण विषमगुणयोः समगुणयोश्च बन्धो भवतीति // 35 // __भा०-अत्राह-परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेषु आहोस्विदव्यवस्थिता इति ? / अत्रोच्यते-अव्यवस्थिताः / कुतः? परिणामात्। अत्राह-बयोरपि बध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति // उच्यते टी-अत्राह-परमाणुष्वित्यादिना ग्रन्थेन सूत्रं सम्बधाति / अत्रेत्यौत्सर्गिके बन्धलक्षणे सापवादे प्रतिपादिते पृच्छत्यजानानः, परिणामविशेषो हि बन्धः, स च स्निग्धे रूक्षलक्षणपरिणामान्तरापाद्यः, अतः परमाणुपु ये स्पर्शादिगुणपरिणामाः स्कन्धेषु वा शब्दादयस्ते किं नित्या:सर्वदा व्यवस्थितास्तेषु परमाण्वादिष्वाहोस्विद्व्यवस्थिता-भूत्वा पुनर्न भवन्तीति / अयमभिप्रायः प्रश्नयितुः-परमाणवः संहन्यमाना द्विप्रदेशादिकस्कन्धाकृत्या परिणमन्ते परिमण्डलादिपञ्चप्रकारसंस्थानरूपेण वेति. तत्र यदि व्यवस्थिताः परमाणुषु परिणामाः स्पर्शादयः स्कन्धेषु वा स्पर्शादिशब्दादयस्ततस्तेषां व्यवस्थितत्वात् सर्वदा नोत्पादो न विनाशः, तौ चान्तरेण स्निग्धरूक्षगुणयोरण्वोः परिणामाभावे तदवस्थयोः कुतो घणुकादिस्कन्धपरिणामः? स्कन्धेषु वा स्पर्शादिशब्दादिपरिणामस्यैकस्यैव नित्यतयेष्टत्वात् शेषस्पर्शादिशब्दादिपरिणामामाबः। अथाव्यवस्थिताः,सर्वमिष्यमाणमुपपन्नम्, पूर्वकपरिणामत्यागेनोत्तरपरिणामान्तराभ्युपगमे स्पर्शादयोऽन्ये चान्ये च स्पर्शादिशब्दादयश्च क्षेत्रकालद्रव्यभावपरिणामविशेषाः स्युरित्यवगम्येत यथापरिणामं वस्त्विति, तन्न जाने कथमेतदिति, सति चाप्यव्यवस्थितत्वे किं समगुणः समगुणतयैव परिणमयत्युत विर्षमगुणतयाऽपीति सन्दिहानं प्रतीदमत्रोच्यते-अव्यव१. स्निग्धस्य स्निग्धेन द्वयाधिकेन, रूक्षस्य रूक्षेण द्वयाधिकेन / स्निग्धस्य रूक्षेणोपैति बन्धो, जघन्यव| विषमः समो वा // 2. पातोत्थः' इति क-पाठः। 3' विषमतया' इति क-पाठः /
Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514