Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 434
________________ 408 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 र्थेनान्वयिना वर्तमानेन यौवनेन विद्यते, न तु तत्र सम्भविनान्येनापि पर्यायेण बालादिना, यदि पुनरस्त्येवेति नियमेनैवोच्यते तत आमरणकालवृत्तत्वात् पुरुपशब्द पुरुषार्थयो!स्तित्वनिरव काशास्तित्वप्रतिज्ञावशात् यथा पुरुषत्वयोवनाभ्यां विद्यते तथा बालपुरुषतयाऽपि स्यादन्याभिश्व वृत्तिभिः सत्सकीणवृत्तिभवेत्, नियतवृत्तिश्च दृश्यते, न वा बालता पुरुषस्वभाव एव भवती. त्यभ्युपेयम्, ततश्चावस्थाहानेः पुरुषाभावप्रसङ्गः, अतो बालापेक्षया स्याद स्त्येवेति भवति, तथैकान्तवादिनो नास्त्येवात्मेत्यवधारणेनोक्ते यथैवान्वयिना द्रव्यार्थपुरुषतया स नास्ति, एवमुत्पादविनाशप्रवाहरूपपर्यायात्मिकयाऽपि बालादिवृत्त्या न स्यात, एवं चात्मनास्तित्वमस्तित्वनिरवकाशं भवेत् ततश्चान्वयिना नैमित्तिकेन वा रूपेण नास्तित्वमात्मनो वान्ध्येयस्येव सर्व प्रकारमनुषक्तम्, अतस्तद्दोपापाकरणेन स्यान्नास्त्येवेत्युच्यते, स ह्यन्वयिन्या वृत्त्या न (?) विघते, न सर्वात्मनैव, येतो वर्तमानपयोयः स्वात्मना बालादिरूपेणास्त्येव, पर्यायपरम्परायामपि वर्तमानपर्यायेणेवास्ति नातीतानागतपर्यायापेक्षणेनेत्यतः स्यानास्त्येवेति / ये त्वस्तित्वनास्तिस्वैकान्तवादिनोऽवधारणमिष्टतः प्रयुञ्जतेऽस्त्येवात्मा नास्त्येव चात्मेति, तेषां शब्दशक्तिप्रापितत्वात् सर्वथाऽस्तित्वनास्तित्वप्रसङ्गः। प्रथमविकल्पे तावत् सर्वप्रकारास्तित्वमात्मनः प्रसजति, प्रतिषेधनिरपेक्षत्वादस्तित्वेन स्वक्शे व्यवस्थापितत्वादस्तित्वाभावे चात्माभावात, नास्तित्वस्यापि स्वविषयेऽवधृतत्वात् सति घटे तदप्रसङ्गात, एकाधिकरणयोश्च सदसतोविरोधात् परस्परविषयानाक्रान्तिः, अतः समस्तवस्तुरूपेणास्त्यात्मा नास्तित्वनिरवकाशास्तिशब्दवाच्यत्वादस्तित्वे स्वात्मवत्, अस्तित्वसामान्येन व्याप्तो न स्वस्तिविशेषैः पटादिभिरिति चेत्, यथाऽनित्यमेव कृतकमनित्याभावे तदभावात्, साध्यधर्मसामान्येनेति वचनात्, अनित्यत्वसामान्यमनित्यव्यक्तिश्चेति द्विरूपः साध्यधर्मः, साधनधर्मोऽपि हि द्विप्रकारः, तत्तुल्योऽपि हितानामे(?)त्यादिवचनात्, तथास्वं येन रूपेणेत्याद्यभिधानात् सामान्यानित्यतया व्याप्तिन विशेषानित्यतया, हन्त भवतैव तर्हि प्रतिपन्नः साध्यधर्मभेदस्तथा चावधारणवैयर्थ्यम्, अनित्यत्वे हि सर्वप्रकारे सत्यवधारणसाफल्यं स्यात्, यदा तु विशेषानित्यतया न भवत्यनित्यं वस्तु तदा व्यर्थमवधारणम् / स्वगतेनापि विशेषेणानित्यं भवत्येवेति चेत्, तन्न, तत्रापि स्वगतेनेति विशेपेणसामर्थ्यात् परगतविशेषानित्यत्वाभावः, पुनरप्यफलमेवावधारणम् / न चानवधारणो वाक्यप्रयोगः पण्डितजनमनःप्रीतिहेतुः, सर्ववाक्यानां सावधारणत्वादिष्टतश्वावधारणप्रकल्पनादवश्यतयाऽवधारणमभ्युपेयम्, अन्यथा त्वनित्यं कृतकमनित्यत्वस्यानवधृतत्वानित्यत्वप्रसक्तिरपि // अपरे त्वेवंविधप्रसङ्गभीत्या त्रिधाऽवधारणफलं वर्णयन्ति अयोगान्ययोगात्यन्तायोगन्यवच्छेदद्वारेण, कचिदेवकारप्रयोगादयोमव्यवच्छेदः, कचिदन्ययोगनिरासः, कचिदत्यन्तायोगव्यु १'वेति तथैकान्त ' इति क-पाठः। २'सतो वर्त ' इति ग-पाठः / धर्मो हि' इति-क-ख पाठः / 5. तथाग' इति ग-पाठः / 3 निषेध ' इति क-पाठः /

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514