Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 412 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 स्तदभेदेन शब्दो वाचकः स्यादिति 5 // नाप्येकदेशे गुणिन आत्मन उपकारः समस्ति, येनैकदेशोपकारेण सहभावो भवेत् , गुणगुणिनोरुपकारकोपकार्यत्वे नीलादिगुणः सकल उपकारकः समस्तश्च घटादिरूपकार्यः, न चैकदेशे गुणो गुणी वा, यतो देशसहभावात् कश्चित् शब्दो वाचकः कल्प्येत 6 // न चैकान्तवादिना सदसत्त्वयोः संसृष्टमनेकान्तात्मक रूपमस्ति, अवधृतैकान्तरूपत्वात्,यथैव हि शबलरूपव्यतिरिक्तौ शुक्लकृष्णावसंसृष्टौ नैकस्मिन्नर्थे वर्तितुं समथी,एवं सदसत्त्वाभ्यां संसर्गाभावान युगपदभिधानमस्ति, नाप्येकशब्दः शुद्धः समासजो वाक्यास्मको वाऽस्ति गुणद्वयस्य सहवाचकः, क्रमेण सदसच्छब्दयोः प्रयोगे यद्यसच्छब्दः सदसत्त्वे योगपद्येन ब्रवीति, एवं तर्हि स्वार्थवत् सत्त्वमप्यसत् कुर्यात्, तथैव सच्छब्दोऽपि स्वार्थवदसदपि सब कुर्यात, विशेषशब्दत्वोच्च सदित्युक्ते नासदभिधीयते, न चासदित्युक्ते सदित्युक्तं भवति, अतो युगपदवाचक एकशब्दः / अथ युगपत् सदसच्छब्दौ गुणद्वयस्य युगपदवाच्यता वाचकाविष्येते, ततः समासवाक्यमाख्यातादिपदसमुदायवाक्यं वा भवेद तत्र च समासवाक्यं न वाचकम्, द्वन्द्वस्तावदुभयपदार्थप्रधानः प्लक्षन्यग्रोधवद्, अस्त्यादिभिः क्रियाभिस्तुल्ययोगित्वात्, क्रियाश्रयत्वाच्च द्रव्यस्य प्राधान्यं न गुणस्वम्, यश्च गुणक्रियाशब्दानां द्वन्द्वो रूपरसादीनामुत्क्षेपणावक्षेपणादीनां च, तत्रापि गुणाः शब्दशक्तिस्वाभाव्याद् द्रव्यरूपा एवोच्यन्तेऽस्त्यादिक्रियायोगित्वात्, अन्यथा द्वन्द्वाभावात् / अत्र चात्मा विशेष्यद्रव्यं सदसतोगुणवचनत्वमतो गुणस्य गुण्यभेदोपचारेणाभिधानम्, सन्नास्माऽसनात्मेत्यतो न द्वन्द्वः // ननु च द्रव्येऽपि स्याद्वादोऽस्ति, न गुणविषय एव, यथा स्याद् घटः स्यादघट इति, अत्रापि हि द्रव्यं गुणरूपोपपन्नमेवोच्यते, शब्दशक्तिस्वाभाव्याद् विशेषणविशेष्यभावापत्तेद्रव्यस्य विशेष्यत्वात्, स्याद् घट इदं वस्त्विति वाक्यं च वृत्तेरभिन्नार्थ केवलं विभक्तिश्रवणाद् रूपेण भिद्यते, अतो वाक्येनापि युगपत् प्रयोगासम्भवः / समानाधिकरणसमासवाक्यमपि न सम्भवति, तत्र हि द्रव्यगुणयोः सामान्यविशेषभावे सति द्रव्यशब्दतायां सामानाधिकरण्यं नीलोत्पलादिवत्, अत्र च सदसतोगुणत्वात् परस्परं भेदे सति न सामानाधिकरण्यमद्रव्यशब्दत्वात् सामान्यविशेषरूपेणास्थितत्वान्नास्तिविशेषणविशेष्यसमानाधिकरणसमासः कर्मधारयथार्थयोरिष्यते, न चान्यत् प्रतिपदविहितं समासलक्षणमस्ति, तस्मात् समासाभावाद युगपत् प्रयोगाभावस्तद्वाक्येऽपि सामर्थ्याभावाद् वृत्त्यनुरोधिवाक्यत्वाचातो न कर्मधारयः / नाप्याख्यातादिपदसमुदायो वाक्यं संश्वासंश्चात्मेति, भवत्यादिक्रियासम्बन्धात्, तत्र सामान्यशब्दो युगपदनेकमर्थमभिदध्यात् न चाभिदधीत, " अभिहिताना सामान्यशब्देन विशेषाणां नियमार्था पुनः श्रुतिः" इति न्यायात्, न वा ब्रूयादनेकमर्थमभिधानोपायासम्भवात्, "तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन चोज्झितः " इति न्यायात, सामान्यशब्देष्वेवं न विशेषशब्देषु धवखदिरादिषु, विशेषशब्दास्तु वाक्ये प्रयुज्यमानाः केवलाः १'त्वसदित्युक्ते ' इति क-पाठः / 2 ' अथवा ' इति क-पाठः / 3 ' रूपापन्न ' इति क-पाठः। ..
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7afb39c17198e3e8cdd5408fee351b4c44ac994c5edfa6f0ca50a16e6a0a6e81.jpg)
Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514