Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
( ६ )
तत्त्वन्यायविभाकरे
अवगाहनागुणमाकाशम् । मानन्तु द्रव्याणां युगपदवगाहस्साधारणबाह्यनिमित्तापेक्षो युगपदवगाहत्वादेक सरोवर्तिमत्स्यादीना मवगाहवदित्यनुमानम् । लोकालोकभेदेन तद्विविधम् । चतुर्दशरज्जुप्रमाणः पञ्चास्तिकायात्मको लोकस्तद्व्याप्योऽसंख्येयप्रदेशात्मको लोकाकाशः । तद्भिन्नोऽलोकाकाशोऽनन्तप्रदेशात्मकः ॥
धर्मादयस्त्रयोsपि स्कन्धदेश प्रदेशभेदेन त्रिविधाः । पूर्ण द्रव्यं स्कन्धः । माध्यमिकौपाधिकभागा देशाः । केवलप्रज्ञापरिकल्पितसूक्ष्मतमो भागः प्रदेशः ||
वर्तनालक्षणः कालः । स च वर्तमानरूप एक एव । सोऽपि निश्चयव्यवहाराभ्यां द्विविधः । वर्तनादिपर्यायस्वरूपो नैश्वयिकः । ज्योतिश्चक्रभ्रमण · जन्यस्समयावलिकादि लक्षणः कालो व्यावहारिकः । वस्तुतस्तु कालोऽयं न द्रव्यात्मकः । किन्तु सर्वद्रव्येषु वर्तनादिपर्यायाणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्वेनोच्यते ॥
वर्तनादिपर्यायाश्च वर्तनाक्रियापरिणामपरत्वापरत्वरूपेण चतुर्विधाः । तत्र सादिसान्तसाधनन्तानादिसान्तानाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वे

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 128