Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 72
________________ अनुमाननिरूपणम् दर्थविशेष्यकतद्वाक्यघटिततत्तत्पदवाच्यत्वसंशयवतः कालान्तरीयप्रयोजकवृद्धप्रयुक्तगां नयाश्वमानयेतिगोशब्दानयनशब्दविषयकावापोद्वापवद्वाक्यश्रवणजन्यप्रयोज्यवृद्धप्रवृत्तितो गोजातीयोऽर्थो गोशब्दस्य वाच्यो गोजातीयश्च शब्दो गोजातीयस्य वाचक इत्येवं रूपस्तर्कः समुल्लसति । कचिच्चाप्तपुरुषप्रयुक्तेन परार्थतकरूपेणेदृशोऽर्थ ईदृशशब्दवाच्य ईदृशशब्दश्वेशार्थस्य वाचक इति वाक्येन वाच्यवाचकभावप्रतिपत्तिः। तर्के चानुभवः स्मृतिः प्रत्यभिज्ञानश्च कारणम् ॥ इति तर्कनिरूपणम् हेतुज्ञानव्याप्तिस्मरणकारणकंसाध्यविज्ञानमनुमानम्। यथा पर्वतो वह्निमानिति विज्ञानम् ।। निश्चितव्याप्तिमान हेतुः । यथा वह्नौ साध्ये धूमः । व्याप्तिमत्त्वमेव हेतो रूपं न तु पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वात्मकं त्रिरूपं, अबाधितत्वासत्प्रतिपक्षाभ्यां पञ्च रूपं वा । असाधारणत्वाभावात्। हेतौ साध्याभाववदवृत्तित्वं व्याप्तिः । इयमेवान्यथानुपपत्तिप्रतिबन्धाविनाभावशब्दैरुच्यते। वहिं विनाधूमस्यानुपपत्तेर्वह्निसत्व एव धूमोपपत्तेश्च वह्निनिरूपितान्यथानुपपत्त्यादिशब्दवाच्या व्याप्तिधूमे

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128