Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 121
________________ (११६ ) तत्त्वन्यायविभाकरे सङ्घादिप्रयोजनाय सबलचक्रवतिविध्वंससामोपजीवनज्ञानाद्यतिचाराऽऽसेवनान्यतरेण दोषवान् जिनागमादप्रतिपाती च पुलाकः ॥ स द्विविधो लब्धिपुलाकस्सेवापुलाकश्चेति । देवेन्द्रसम्पत्तिसदृशसम्पत्तिमान् लब्धिविशेषयुक्तः पुलाको लब्धिपुलाकः ॥ - सेवापुलाकस्तु ज्ञानदर्शनचारित्रलिङ्गयथासूक्ष्मभेदेन पञ्चविधः। सूत्राक्षराणां स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्याऽऽत्मनो निस्सारकारी ज्ञानपुलाकः। कुदृष्टिसंस्तवादिभिरात्मगुणघातको दर्शनपुलाकः। मूलो. त्तरगुणप्रतिसेवनया चारित्रविराधनेनात्मभ्रंशकश्चारित्रमुलाकः । तत्र मूलगुणा व्रतादयः, उत्तरगुणाः पिण्डविशुद्ध्यादयः। उक्तलिङ्गाधिकलिङ्गग्रहणनिर्हेतुकापरलिङ्गकरणान्यतरस्मादात्मनो निस्सारकर्ता लिगपुलाकः। ईषत्प्रमादमनःकरणकाकल्प्यग्रहणान्यतरेणाऽऽत्मभ्रंशको यथासूक्ष्मपुलाकः ॥ देहस्योपकरणानां वाऽलङ्काराभिलाषुकश्चरणमलिनकारी बकुशः । शरीरोपकरणभेदाभ्यां स द्विविधः॥

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128