Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 95
________________ (९०) तत्त्वन्यायविभाकरे स्मिन् कोऽयं प्राणीति विशेषानुल्लेखि ज्ञानम् । अनिश्चितानेककोटिविषयकः संशयः । सर्वथा कोट्यविषयकोऽनध्यवसाय इत्यनयोर्भेदः । तथा अनवस्थितानेकांशाप्रकारके वस्तुनि अनवस्थितानेकांशप्रकारकत्वावगाहनात्संशयः आरोपरूपः । अनध्यवसायस्य संशयविपर्ययात्मकारोपेण सहायथार्थपरिच्छेदकत्वसाम्यादारोपरूपत्वमुपचारवृत्त्या भाव्यम् ।। ___ इत्यारोपनिरूपणम् श्रुताख्यप्रमाणबोधितांशग्राहकोऽनिराकृतेतरां शो वक्तुरभिप्रायविशेषो नयः । यथार्थवस्त्वैकदेशग्राहकत्वान्नयस्य यथार्थनिर्णयत्वरूपप्रमाणत्वं नास्त्येव । अत एव च नाप्रमाणत्वम् । अपि तु प्रमाणाप्रमाणाभ्यां भिन्नं ज्ञानान्तरमेव ॥ स च नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूतभेदात्सप्तविधः॥ ___ आद्यास्त्रयो द्रव्यार्थिकनयाः, परे चत्वारः पर्यायार्थिकनयाः । द्रव्यमात्रविषयकत्वात्पर्यायमात्रविषयकत्वाच्च । गुणानां पर्यायेऽन्तर्भावः । ऊर्ध्वतासामान्यस्य द्रव्येऽन्तर्भावः, तिर्यक्सामान्यस्य तु व्यअनपर्यायरूपस्य पर्यायेऽन्तर्भावः । स्थूलाः कालान्तस्थायिनः शब्दानां संकेतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धिः । अतो नाधिकनयशङ्क। ।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128