Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas
View full book text
________________
भावनानिरूपणम्
( १०५ )
बाह्याभ्यन्तरभेदेन द्वादशविधानि तपांसि पूर्व
मेवोक्तानि ॥
उदीर्णक्रोधादिचतुष्टयनिग्रहः क्रोधनिग्रहः ॥
इति चरणनिरूपणम् ॥
पिण्डविशुद्धिसमितिभावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनागुप्त्यभिग्रहभेदेनाष्टविधमपि करणमवान्तरभेदात्सप्ततिविधम् ॥
सर्वदोषरहिताऽऽहारोपाश्रयवस्त्र पात्रपरिग्रहात्मिकाश्चतस्रः पिण्डविशुद्धयः ॥
साध्वाचरणे शास्त्रोदितविधिना सम्यक्प्रवृत्तिः समितिः । सा चेर्यादिरूपा पञ्चविधा पूर्वमेवोक्ता वेदितव्या ॥
धर्मार्थं चित्तस्थिरीकरणहेतुर्विचारो भावना । द्वादशविधा सा चेत्थम् ॥
बाह्यान्तरनिखिल पदार्थेष्वनित्यत्व चिन्तनमनित्यभावना । अनया चैषां संयोग आसक्तिर्विप्रयोगे च दुःखमपि पुरुषस्य न स्यात् ॥
जन्मजरामरणादिजन्यदुःखपरिवेष्टितस्य जन्तोस्संसारे कापि अर्हच्छासनातिरिक्तं किमपि शरणं न विद्यत इति भावनाऽशरणभावना । एवं भाव यतः सांसारिकेषु भावेषु वैराग्यं समुत्पद्येत ॥

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128