SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भावनानिरूपणम् ( १०५ ) बाह्याभ्यन्तरभेदेन द्वादशविधानि तपांसि पूर्व मेवोक्तानि ॥ उदीर्णक्रोधादिचतुष्टयनिग्रहः क्रोधनिग्रहः ॥ इति चरणनिरूपणम् ॥ पिण्डविशुद्धिसमितिभावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनागुप्त्यभिग्रहभेदेनाष्टविधमपि करणमवान्तरभेदात्सप्ततिविधम् ॥ सर्वदोषरहिताऽऽहारोपाश्रयवस्त्र पात्रपरिग्रहात्मिकाश्चतस्रः पिण्डविशुद्धयः ॥ साध्वाचरणे शास्त्रोदितविधिना सम्यक्प्रवृत्तिः समितिः । सा चेर्यादिरूपा पञ्चविधा पूर्वमेवोक्ता वेदितव्या ॥ धर्मार्थं चित्तस्थिरीकरणहेतुर्विचारो भावना । द्वादशविधा सा चेत्थम् ॥ बाह्यान्तरनिखिल पदार्थेष्वनित्यत्व चिन्तनमनित्यभावना । अनया चैषां संयोग आसक्तिर्विप्रयोगे च दुःखमपि पुरुषस्य न स्यात् ॥ जन्मजरामरणादिजन्यदुःखपरिवेष्टितस्य जन्तोस्संसारे कापि अर्हच्छासनातिरिक्तं किमपि शरणं न विद्यत इति भावनाऽशरणभावना । एवं भाव यतः सांसारिकेषु भावेषु वैराग्यं समुत्पद्येत ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy