________________
(१०४)
तत्त्वन्यायविभाकरे पटुाध्याक्रान्तो मुनिग्लीनः । श्रुतस्थविरपरम्परानुयायी गणः। एकजातीयानेकगच्छसमूहः कुलम् । ज्ञानदर्शनचरणगुणवान् श्रमणादिः सङ्घः । ज्ञानादिपौरुषेयशक्तिभिर्मोक्षसाधकः साधुः । एकसमा. चारीसमाचरणपरस्साधुस्समनोज्ञः॥ . वसतिकथानिषद्येन्द्रियकुड्यन्तरपूर्वक्रीडितप्रणीतातिमात्राहारभूषणगुप्तिभेदेन ब्रह्मचर्यगुप्तिनवधा ॥
स्त्रीषण्डादिवासस्थानवर्जनं वसतिगुप्तिः। रागानुबन्धिस्त्रीसंलापचरित्रवर्णनपरित्यागः कथागुप्तिः । स्न्यासनपरिवर्जनं निषद्यागुप्तिः । रागप्रयुक्तस्यङ्गोपाङ्गविलोकनत्यजनमिन्द्रियगुप्तिः । एककुड्यान्तरितमैथुनशब्दश्रवणस्थानपरित्यागः कुड्यन्तरगुप्तिः। प्राक्तनतत्क्रीडास्मरणवैधुर्यं पूर्वक्रीडितगुप्तिः। अतिस्निग्धमधुराद्याहारपरिहारः प्रणीतगुप्तिः। मानाधिकाहारपरिवर्जनमतिमात्राहारगुप्तिः । स्नानविलेपनादिशरीरशुश्रूषावर्जनं भूषणगुप्तिः ॥ . ज्ञानदर्शनचरणभेदतो ज्ञानादि त्रिविधम् ।
कर्मक्षयोपशमसमुत्थावबोधत तुद्वादशाङ्गाद्यन्यतरत् ज्ञानम् । तत्त्वश्रद्धानं दर्शनम् । पापव्यापारेभ्यो ज्ञानश्रद्धानपूर्वकविरतिश्चरणम् ।।