________________
(१०६)
तत्त्वन्यायविभाकरे
संसारे बम्भ्रम्यमाणानां जनानां सर्व एव स्वजनाः परजनाश्चेति विचारः संसारभावना । एवं विचारयतः केष्वपि ममत्वाभावानिर्विण्णस्य संसारपरिहाराय यत्न उदीयात् ।।
एक एवाहं जाये म्रिये न मे कश्चिदात्मीयः परो वा, न वा कश्चिन्मदीयं दुःखाद्यपहर्तुं प्रभवतीत्येवं विचिन्तनमेकत्वभावना । अनया च निःसङ्गता यायात् ॥
वैधर्येण शरीरभिन्नतयाऽऽत्मानुचिन्तनमन्यत्वभावना । अनया च देहात्माभिमाननिवृत्तिर्जायेत ॥
अशुचिमयः कायोऽशुचिहेतुकोऽशुचिस्यन्दी चेति विचारोऽशुचिभावना । एतया च शरीरविषये निर्ममत्वं स्यात् ।।
इन्द्रियाद्याश्रवद्वारा कर्मागमनचिन्तनमाश्रवभावना । अनया चावनिरोधाय यतेत ॥
आश्रवदोषास्सर्वे पापोपार्जननिरोधपटिष्ठसंवरवतो नैव स्पृशन्तीति विलोकनं संवरभावना । अनया च संवराय घटेत ॥
नरकादिषु कर्मफलविपाकोदयोऽबुद्धिपूर्वकः तपः