________________
लोकनिरूपणम्
( १०७ )
परीषहादिकृतश्च कुशलमूल इति विभावनं निर्जरभावना । अनया च कर्मपरिक्षयाय यतेत ॥
पञ्चास्तिकायरूपानेकपरिणाम्युत्पादव्ययधौव्यात्मकं लोकं विचित्रस्वभावमिति विचारणा लोकभावना । एतया च निर्ममत्वमुदीयात् ॥
तत्र अलोकभिन्नः केवलिनावलोक्यमानो लोकः । सच पञ्चास्तिकायात्मकः कठिन्यस्तहस्तयुग्मवैशाख
संस्थानसंस्थितपादनराकृतिरुत्पत्तिस्थितिव्ययात्म
कश्चतुर्दशरज्जुपरिमाण ऊर्ध्वाधस्तिर्यग्भेदभिन्नः ॥ असंख्येययोजनकोटाकोटिप्रमाणा रज्जुः ॥
तत्र रुचकादधो नवशतयोजनान्युल्लंघ्य साधिकसप्तरज्जुप्रमाणो लोकान्तावधिरधोमुखमल्लकाकुतिर्भवनपतिनारकनिवासयोग्योऽधोलोकः ॥
रुचकस्तु रत्नप्रभापरनामक धर्मापृथिव्युपरितन क्षुल्लकप्रतरद्विके मेरुधराधरमध्ये उपर्यधो भावेन स्थितश्चतुरस्राकृतिराकाशप्रदेशाष्टकः ||
अयश्च मध्यलोकस्य मध्यं दिग्विदिग्व्यवहार
मूलम् ॥
रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभाषरपर्याया धर्मावंशाशैलाञ्जनारिष्टामघामाघवत्यभिधानास्सप्त पृथिव्योऽधोऽधः पृथुतराः ॥