SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (१०८) तत्त्वन्यायविभाकरे ताश्च प्रत्येकमनुक्रमतो घनोदधिधनवाततनवाताकाशैर्लब्धप्रतिष्ठा वलयिताश्च ॥ एतस्मिन् लोके रत्नप्रभादिक्रमेणोत्कर्षत एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमायुष्का जघन्यतो दशवर्षसहस्रकत्रिसप्तदशसप्तदशद्वाविंशतिसागरोपमायुष्का अनवरताशुभतरलेश्यापरिणामशरीरवेदनाविक्रिया अन्योन्योदीरितदुःखा नारका वसन्ति । रत्नप्रभायाश्चाशीतिसहस्रोत्तरैकलक्षयोजनस्थूलाया योजनसहस्रमुपर्यधश्च विहायान्तर्जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टत किश्चिदधिकसागरोपमायुष्काणां भवनपतीनां भवनानि वर्तन्ते । तत्रैव भागान्तरे रत्नप्रभीया नारका वसन्ति । द्वात्रिंशदष्टविंशतिविंशत्यष्टादशषोडशाष्टसहस्राधिकलक्षयोजनबाहल्याश्शर्करादयः। अन्न तु नारका एव वसन्ति ॥ उपरितनसहस्रयोजनस्योर्ध्वमधश्च योजनशतं मुत्तवा मध्ये पिशाचाद्यष्टविधानां जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टत एकपल्योपमायुष्काणां व्यन्तराणां नगराणि सन्ति ॥ ऊर्ध्वशतयोजनेषु चोपर्यधश्च दशयोजनानि
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy