Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 117
________________ ( ११२) तत्त्वन्यायविभाकरे ततश्वोपरि पूर्वादिक्रमेण विजयवैजयन्तजयन्तापराजितानि विमानानि सन्ति । मध्ये च सर्वार्थसिद्धविमानम् । आद्यचतुर्विमानस्थानामुत्कृष्टतो द्वात्रिंशत्सागरोपमं जघन्यत एकत्रिंशत्सागरोपममायुः। सर्वार्थसिद्धस्थानान्तु जघन्याभावेनोत्कर्षेण त्रयस्त्रिंशत्सागरोपममायुः । आद्यस्थानद्वयं घनोदधिप्रतिष्ठं तदुपरिस्थानत्रयं वायुप्रतिष्ठं तदु. परिस्थानत्रयं च घनोदधिधनवातप्रतिष्ठं शेषाणि च गुरुलघुगुणवत्त्वादाकाशप्रतिष्ठानि ॥ ग्रैवेयकेषु अनुत्तरे च कल्पातीता देवा निवसन्ति ॥ तत ऊर्ध्व द्वादशयोजनात पञ्चचत्वारिंशल्लक्षयोजनपरिमाणा मध्ये चाष्टयोजनवाहल्या अन्ते मक्षिकापक्षवत्कृशतरा उत्तानातपत्राकारा ईषत्प्राग्भाराभिधानाष्टमी स्वच्छस्फटिकरूपा सिद्धशिलापराभिधाना पृथिवी ॥ . तत ऊर्ध्वं चतुर्थगव्यूतिषष्ठभागे आलोकान्तं सिद्धानां निवासः॥ तत्र रुचकात्सौधर्मेशानौ यावत्सार्धरज्जुस्तत आ सनत्कुमारमाहेन्द्रमेकरज्जुस्ततस्सहस्रारं यावत्साधं रज्जुद्वयं तस्मादच्युतं यावदेकरज्जुस्तत आ. लोकान्तं किश्चिदूनका रज्जुः ॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128