Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 118
________________ प्रतिमानिरूपणम् (११३) ___ अधोलोकान्तादूर्ध्वलोकान्तं चतुर्दशरज्जुपरिमा करज्जुविस्तृता त्रसनिवासस्थानरूपा त्रसनाडिकाऽस्ति अस्या बहिरेकेन्द्रिया एव निवसन्तीति॥ ____ नरकादिगतिषु मुहुर्मुहुः परिभ्रमतो मिथ्यादर्शनाद्युपहतचेतसः सम्यग्दर्शनादिनिर्मलाहद्धर्मावाप्तिर्दुश्शक्येति परिचिन्तनं बोधिदुर्लभभावना । अतो बोधिप्राप्तौ अप्रमादी स्यात् ।। सम्यग्दर्शनमूलः पञ्चमहाव्रतसाधनो गुप्त्यादिविशुद्धिव्यवस्थानः संसारपारकरो धर्मः परमर्षिणाऽहंता व्याख्यातः स्वयमप्यनुष्ठितश्चेत्येवं शोचनं धर्मखाख्यातभावना । अस्याश्च धर्मे श्रद्धागौरवं तदनुष्ठानासक्तिश्च जायत इति ॥ विशिष्टतपोऽभिग्रहो भिक्षुप्रतिमा । सा द्वादशविधा । आमासं विशिष्टस्थानावस्थितदात्रविच्छिनसकृत्प्रदत्तानपानपरिग्रहा एकमासिकी प्रतिमा। एवं द्विमासादि यावत्सप्तमासं विशिष्टस्थानावस्थितव्यत्तया क्रमेण द्वित्रिचतुःपञ्चषट्सप्तवारं प्रदत्तान्नपानपरिग्रहणरूपाः षट् प्रतिमा भाव्याः ॥ सप्ताहोरात्रप्रमाणा एकान्तरनिर्जलोपवासात्मि

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128