Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 89
________________ ( ८४ ) 'तत्त्वन्यायविभाकरे दिरूपेण वक्तव्य एव सन् युगपत्प्रधानभूतसत्त्वासवोभयरूपेण प्रतियोग्य समानाधिकरणाभावाप्रतियोग्यवक्तव्यत्ववानिति बोधः ॥ स्यादस्ति चावक्तव्यश्च घट इति पञ्चमवाक्येन द्रव्यपेक्षया अस्तित्वविशिष्टो युगपद्रव्य पर्यायापेक्षयाऽवक्तव्यत्वविशिष्टो घटो बोध्यते । तथा चाभे. दप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मात्मको घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिद्रव्याद्यवच्छिन्नास्तित्वविशिष्टयुगपत्स्वपरद्रव्याद्यवच्छिन्नसत्त्वासत्त्वो भयविषयकावक्तव्यत्ववानिति बोधः ॥ स्यान्नास्ति चावक्तव्यश्चेति षष्टं वाक्यं परद्रव्याद्यपेक्षया नास्तित्वविशिष्टं युगपत्प्राधान्येन स्वपरद्रव्याद्यपेक्षया अवक्तव्यत्वविशिष्टं घटं प्रतिपादयति । तथा च तादृशों घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावाप्रतियोगिपरद्रव्याद्यवच्छिन्ननास्तित्वविशिष्टयुगपत्स्वपरद्रव्याद्यवच्छिन्नसत्त्वासत्त्वविषयकावक्तव्यत्ववानिति बोधः ॥ स्यादस्ति नास्ति चावक्तव्यश्च घट इति सप्तमं वाक्यन्तु क्रमार्पितस्वपरद्रव्यादीन् सहार्पितस्वपरद्रव्यादीनाश्रित्यास्तित्वनास्तित्वविशिष्टावक्तव्य

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128