Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 83
________________ (७८) तत्त्वन्यायविभाकरे वचनः रागित्वात् यन्नैवं तन्नैवं यथा तथागत इति दृष्टान्तस्तथागते अरागित्वस्य संशयात्संदिग्धसाधनव्यतिरेकः । बुधोऽयं न सर्वज्ञः रागित्वादित्यत्र यः सर्वज्ञः सो न रागी यथा बुद्ध इति दृष्टान्ते उभयस्य संशयात् संदिग्धसाध्यसाधनोभयव्यतिरेकः॥ चैत्रोऽयमरागी वक्तृत्वाद्यन्नैवं तन्नैवं यथा पाषाणशकलमिति दृष्टान्ते साध्यसाधनोभयव्यतिरेकस्य सत्त्वेऽपि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ॥ अनित्यश्शब्दः कृतकत्वाद्गगनवदिति दृष्टान्तो व्यतिरेकस्याप्रदर्शनादप्रदर्शितव्यतिरेकः ।। । तत्रैव यदकृतकं तन्नित्यं यथा गगनमित्युक्ते विपरीतव्यतिरेकः ॥ . पर्वतो वह्निमान् धूमात् यो धूमवान्स वह्निमान् यथा महानसं वह्निमांश्च पर्वतो धूमवानित्युपसंहरणे उपनयाभासः । तत्रैव तस्माद्धमवान् पर्वतो वह्निमन्महानसमिति निगमने निगमनाभास इति दिक् ॥ इत्याभासनिरूपणं समाप्तश्चानुमानम् ॥ • यथार्थप्रवक्तृवचनसम्भूतमर्थविज्ञानमागमः । अर्थविज्ञानहेतुत्वादाप्तशब्दोऽप्यागम उपचारात् ।

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128