________________
(७८)
तत्त्वन्यायविभाकरे वचनः रागित्वात् यन्नैवं तन्नैवं यथा तथागत इति दृष्टान्तस्तथागते अरागित्वस्य संशयात्संदिग्धसाधनव्यतिरेकः । बुधोऽयं न सर्वज्ञः रागित्वादित्यत्र यः सर्वज्ञः सो न रागी यथा बुद्ध इति दृष्टान्ते उभयस्य संशयात् संदिग्धसाध्यसाधनोभयव्यतिरेकः॥
चैत्रोऽयमरागी वक्तृत्वाद्यन्नैवं तन्नैवं यथा पाषाणशकलमिति दृष्टान्ते साध्यसाधनोभयव्यतिरेकस्य सत्त्वेऽपि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ॥
अनित्यश्शब्दः कृतकत्वाद्गगनवदिति दृष्टान्तो व्यतिरेकस्याप्रदर्शनादप्रदर्शितव्यतिरेकः ।। । तत्रैव यदकृतकं तन्नित्यं यथा गगनमित्युक्ते विपरीतव्यतिरेकः ॥ . पर्वतो वह्निमान् धूमात् यो धूमवान्स वह्निमान् यथा महानसं वह्निमांश्च पर्वतो धूमवानित्युपसंहरणे उपनयाभासः । तत्रैव तस्माद्धमवान् पर्वतो वह्निमन्महानसमिति निगमने निगमनाभास इति दिक् ॥
इत्याभासनिरूपणं समाप्तश्चानुमानम् ॥ • यथार्थप्रवक्तृवचनसम्भूतमर्थविज्ञानमागमः । अर्थविज्ञानहेतुत्वादाप्तशब्दोऽप्यागम उपचारात् ।