________________
आगमनिरूपणम्
(७९) यथा गोष्ठे गौरस्ति, धर्मसाध्यः परलोकोऽस्तीत्यादयः॥
प्रक्षीणदोषो यथास्थितार्थपरिज्ञाता यथास्थितार्थप्रख्यापको यथार्थवक्ता । अयं द्विविधो लौकिकः पित्रादिः, लोकोत्तरस्तीर्थकरादिः॥
शब्दश्च सङ्केतसापेक्षः स्वाभाविकार्थबोधजनकशक्तिमांश्च ॥ .
वक्तृगुणदोषाभ्याश्चास्य याथार्थ्यायाथायें ॥ सोऽयं शब्दो वर्णपदवाक्यरूपेण त्रिविधः ॥
भाषावर्गणात्मकपरमाण्वारब्धो मूर्तिमानकारादिवर्णः । घटादिसमुदायघटकवर्णानामपि प्रत्येकमर्थवत्त्वमेव । तद्व्यत्यये अर्थान्तरगमनात् ॥
स्वार्थप्रत्यायने शक्तिमान् पदान्तरघटितवर्णापेक्षणरहितः परस्परसहकारिवर्णसंघातः पदम् ॥ ... स्वार्थप्रत्यायने शक्तिमान् वाक्यान्तरघटितपदापेक्षारहितः परस्परसहकारिपदसमूहो वाक्यम् ॥
अनेकान्तात्मके पदार्थे विधिनिषेधाभ्यां प्रवर्तमानोऽयं शब्दः सप्तभङ्गीं यदानुगच्छति तदैवास्य पूर्णार्थप्रकाशकत्वात् प्रामाण्यम् । घटोऽस्तीत्यादि