SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ www (८०) तत्त्वन्यायविभाकरे लौकिकवाक्यानामर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि न वास्तविकं प्रामाण्यं, पूर्णार्थाप्रकाशकत्वात् , सप्तभङ्गीसमनुगमाभावाच ॥ __ तत्र प्रश्नानुगुणमेकधर्मिविशेष्यकाविरुद्धविधिनिषेधात्मकधर्मप्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वं सप्तभङ्गीत्वम् ।। वाक्यानि च स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादस्ति नास्ति च घटः, स्यादवक्तव्य एव, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति नास्ति चावक्तव्यश्चेति ॥ सप्तविधप्रष्टप्रश्नवशात्सप्तवाक्यप्रवृत्तिः प्रश्नानां सप्तविधत्वं तजिज्ञासायास्सप्तधात्वात् , सप्तधात्वं जिज्ञासायाः सप्तधा संशयोदयात्, संशयानां सप्तधात्वं तु तद्विषयधर्माणां सप्तधात्वाद्विज्ञेयम् ॥ ते च धर्माः कथञ्चित्सत्त्वं, कथञ्चिदसत्त्वं क्रमार्पितोभयं, कथञ्चिदवक्तव्यत्वं, कथञ्चित्सत्त्वविशिष्टावक्तव्यत्वं, कथञ्चिदसत्त्वविशिष्टावक्तव्यत्वं, क्रमार्पितोभयविशिष्टावक्तव्यत्वश्च ॥ _ तत्र प्रथमे भङ्गे सत्त्वस्य प्रधानतया भानं, द्वितीयेऽसत्त्वस्य प्राधान्येन, तृतीय क्रमाप्तिसत्त्वा
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy