SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आभासनिरूपणम् (७७) साध्यहेत्वोः सत्त्वेऽपि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्ध्या अनन्वयः॥ अनित्यः शब्दः कार्यत्वात् घटवदित्यत्र अन्वयसहचारसत्त्वेऽप्यप्रदर्शनादप्रदर्शितान्वयः । तत्रैव यदनित्यं तत्कृतकं यथा घट इत्युक्तौ विपरीतान्वयः ॥ वैधय॑दृष्टान्ताभासोऽपि नवविधः । असिद्ध. साध्यसाधनोभयव्यतिरेकसंदिग्धसाध्यसाधनोभयव्यतिरेकाव्यतिरेकाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकभेदात्॥ अनुमानं भ्रमः प्रमाणत्वात् यो भ्रमो न भवति स न भवति प्रमाणं यथा स्वप्रज्ञानमिति दृष्टान्तः स्वप्रज्ञाने भ्रमत्वनिवृत्त्यसिद्ध्या असिद्धसाध्यव्यतिरेकः । निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यन्न प्रत्यक्षं न तत् प्रमाणं यथानुमानमित्यत्रानुमानेऽप्रमाणत्वासिद्ध्याऽसिद्धसाधनव्यतिरेकः । घटो नित्यानित्यः सत्त्वात् यो न नित्यानित्यः न स सन् यथा पट इति दृष्टान्तोऽसिद्धसाध्यसाधनोभयव्यतिरेकः ॥ कपिलोऽसर्वज्ञः अक्षणिकैकान्तवादित्वात् यत्नैवं तन्नैवं यथा बुद्ध इति दृष्टान्तः सर्वज्ञत्वस्य बुद्धे संदिग्धतया संदिग्धसाध्यव्यतिरेकः । चैत्रोऽग्राह्य
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy