SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ( ७६ ) तत्त्वन्यायविभाकरे शिवराजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानमवध्याभासः॥ मनःपर्यवकेवलयोस्तु नाभासत्वं संयमविशुद्धिजन्यत्वात् कृत्स्नावरणक्षयसमुद्भूतत्वाच ॥ आगमाभासस्त्वग्रे वक्ष्यते ॥ दृष्टान्तवद्भासमानो दृष्टान्ताभासः। स द्विविधः साधर्म्यदृष्टान्ताभासो वैधय॑दृष्टान्ताभासश्चेति । साधर्म्यदृष्टान्तो नवविधः साध्यसाधनोभयविकल संदिग्धसाध्यसाधनोभयानन्वयाप्रदर्शितान्वयविपरीतान्वयभेदात् ॥ नित्यश्शब्दोऽमूर्तत्वादित्यत्र दुःखस्य दृष्टान्नत्वे तस्यानित्यत्वेन साध्यधर्मविकलता, परमाणो. दृष्टान्तत्वे मूर्तत्वेन तस्य साधनविकलता, घटस्यदृष्टान्तत्वे तूभयविकलता ॥ ___ अयं चैत्रो रागी वक्तृत्वाद्देवदत्तवदित्यत्र देवदत्ते रागित्वस्य संदिग्धतया संदिग्धसाध्यधर्मा । अयं वक्ता रागित्वान्मैत्रवदिति संदिग्धसाधनधर्मा। अयं न सर्वज्ञो रागित्वात् मुनिवदिति दृष्टान्ते असर्वज्ञत्वरागित्वयोः संदिग्धत्वात्संदिग्धोभयधर्मा। चैत्रोऽयं रागी वक्तृत्वान्मैत्रवदिति दृष्टान्ते
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy