Book Title: Tattvanyaya Vibhakar
Author(s): Labdhisuri
Publisher: Chandulal Jamnadas

View full book text
Previous | Next

Page 80
________________ आभासनिरूपणम् तदेवेदमिति पक्षः तेन तुल्यमिदमिति प्रत्यभिज्ञया तथा । यो यो मित्रातनयः स स श्याम इति पक्षः, यो यः शाकाद्याहारपरिणामपूर्वकमित्रातनयस्स श्याम इति तर्केण तथा। नरशिरःकपालं शुचीति लोकेन तथा । नास्ति प्रत्यक्षातिरिक्तं प्रमाणमिति पक्षीकुर्वतश्चार्वाकस्य पक्षोऽयं स्ववचनेन तथा । . तृतीयो यथा शब्दस्यानित्यत्वमिच्छतश्शब्दो नित्य इति पक्षस्तस्यानभीप्सितसाध्यधर्मविशेषणक इति ॥ पक्षाभासादिसमुद्भूतं ज्ञानमनुमानाभासम् ॥ असत्यां व्याप्तौ तर्कप्रत्ययस्तर्काभासः । यथा यो यो मित्रातनयः स स श्याम इति ॥ • तुल्ये वस्तुन्यैक्यस्य, एकस्मिश्च तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभिज्ञाभासः । यथा तदेवौषधमिति, एकस्मिश्च घटे तेन सदृशमिति ज्ञानम् ॥ . अननुभूते तदिति बुद्धिः स्मरणाभासः । यथाऽननुभूतशुक्लरूपस्य पुरुषस्य तच्छुक्लं रूपमिति बुद्धिः॥ मेघादौ गन्धर्वनगरादिज्ञानं दुःखादी सुखादिप्रत्यक्षञ्चेन्द्रियानिन्द्रियनिमित्तकसांव्यवहारिकप्रत्यक्षाभासः॥

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128