SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ( ६ ) तत्त्वन्यायविभाकरे अवगाहनागुणमाकाशम् । मानन्तु द्रव्याणां युगपदवगाहस्साधारणबाह्यनिमित्तापेक्षो युगपदवगाहत्वादेक सरोवर्तिमत्स्यादीना मवगाहवदित्यनुमानम् । लोकालोकभेदेन तद्विविधम् । चतुर्दशरज्जुप्रमाणः पञ्चास्तिकायात्मको लोकस्तद्व्याप्योऽसंख्येयप्रदेशात्मको लोकाकाशः । तद्भिन्नोऽलोकाकाशोऽनन्तप्रदेशात्मकः ॥ धर्मादयस्त्रयोsपि स्कन्धदेश प्रदेशभेदेन त्रिविधाः । पूर्ण द्रव्यं स्कन्धः । माध्यमिकौपाधिकभागा देशाः । केवलप्रज्ञापरिकल्पितसूक्ष्मतमो भागः प्रदेशः || वर्तनालक्षणः कालः । स च वर्तमानरूप एक एव । सोऽपि निश्चयव्यवहाराभ्यां द्विविधः । वर्तनादिपर्यायस्वरूपो नैश्वयिकः । ज्योतिश्चक्रभ्रमण · जन्यस्समयावलिकादि लक्षणः कालो व्यावहारिकः । वस्तुतस्तु कालोऽयं न द्रव्यात्मकः । किन्तु सर्वद्रव्येषु वर्तनादिपर्यायाणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्वेनोच्यते ॥ वर्तनादिपर्यायाश्च वर्तनाक्रियापरिणामपरत्वापरत्वरूपेण चतुर्विधाः । तत्र सादिसान्तसाधनन्तानादिसान्तानाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वे
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy