________________
अजीवनिरूपणम्
(७) केनापि केनचित्प्रकारेण द्रव्याणां वर्तनं वर्तनेत्युच्यते । इयं वर्तना प्रतिसमयं परिवर्तनात्मिका, नातो विवक्षितैकवर्तना द्विसमयं यावदपि स्थिति कुरुते, अतो या वर्तनायाः परावृत्तिस्सा पर्यायत्वेनाभिधीयते । भूतकाले भूता भविष्यति भविष्यन्त्यो वर्तमानकाले च भवन्त्यो या या द्रव्याणां चेष्टा सः क्रियापर्यायः । प्रयोगपरिणामविस्रसापरिणामाभ्यां जायमाना नवीनत्वप्राचीनत्वलक्षणा या परिणतिस्स परिणामः । यदाश्रयतो द्रव्येषु पूर्वापरभावित्वव्यपदेशः स परत्वापरत्वपर्यायः ॥
रूपवन्तः पुद्गलाः। एते रसगन्धस्पर्शवन्तोऽपि । लोकाकाशव्यापिनः । ते च स्कन्धदेशप्रदेशपरमाणुभेदेन चतुर्विधाः । कृत्स्नतया परिकल्पितपरमाणुसमूहः स्कन्धः । प्रदेशादवाचीनस्कन्धभागा देशाः । केवलप्रज्ञागम्यस्कन्धानुवर्तिसूक्ष्मतमभागः प्रदेशः। स एव पृथग्भूतश्चेत्परमाणुरिति व्यवह्रियते। अयं परमाणुस्सर्वान्तिमकारणं द्रव्यानारभ्यः कार्यलिङ्गकश्च । शब्दान्धकारोद्योतप्रभाच्छायातपादि परिणामवान् । परमाणूनां परिणामविशेषाण्येव पृथिवीजलतेजोवायुशरीराणि ॥
इत्यजीवनिरूपणम्