SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ (८) तत्त्वन्यायविभाकरे - पौद्गलिकसुखोत्पत्तिजनकं कर्म पुण्यम् । पौगलिकमेतत् । इदमेव द्रव्यपुण्यमुच्यते । द्रव्यपुण्यनामककर्मोत्पत्तिहेतुरात्मनश्शुभाध्यवसायो भावपुण्यम् । ___ आयुर्नामगोत्रकर्मभिन्नमनुकूलवेदनीयं कर्म सातम् । वेदनीयायुर्नामकर्मभिन्नं गौरवजनकं कर्म उच्चैर्गोत्रम् । मानुषत्वपर्यायपरिणतिप्रयोजकं कर्म मनुजगतिः । वक्रगत्या स्वस्वोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणि गतिनियामकं कर्म आनुपूर्वी । मनुष्यत्वोपलक्षिता आनुपूर्वी मनुष्यानुपूर्वी । इमे मनुष्यद्विकशब्दवाच्ये॥ देवत्वपर्यायपरिणतिप्रयोजकं कर्म सुरगतिः । देवत्वोपलक्षिताऽऽनुपूर्वी सुरानुपूर्वी। इमे सुरद्विके॥ पश्चेन्द्रियशब्दप्रवृत्तिनिमित्तभूतसदृशपरिणत्यात्मकजातिविपाकोदयवेद्यं कर्म पञ्चेन्द्रियजातिः। औदारिकशरीरयोग्यगृहीतपुद्गलानां शरीरतया परिणमनप्रयोजकं कौंदारिकशरीरम् । वैक्रियपुद्गलानां शरीरत्वेन परिणमनहेतुः कर्म वैक्रियशरीरम् । आहारकपुद्गलानां देहतया परिवर्तनसमर्थ कर्म आहारकशरीरम् । तैजसवर्गणागतपुद्गलानां शरीरतया परिवर्तकं कर्म तैजसशरीरम् । कार्मण
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy