SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पुण्यनिरूपणम् वर्गणागतपुद्गलानां शरीरत्वेन परिवर्तनहेतुः कर्म कार्मणशरीरम् । इमानि पञ्च देहानि । तत्राचं शरीरं तिर्यङ्मनुष्याणाम् । द्वितीयं देवनारकिणाम् । तृतीयं चतुर्दशपूर्वधरस्यैव । तुर्यपञ्चमे संसारिणां सर्वेषाम् । कार्मणं विहायान्यान्युपभोगवन्ति ॥ ____ अङ्गानि शिरःप्रभृतीन्यष्टौ, उपाङ्गानि तदवयवाङ्गुल्यादीनि, एतनिमित्तकमौदारिकशरीरसम्बन्धिकर्म औदारिकाङ्गोपाङ्गनाम । तादृशं वैक्रियशरीरसम्बन्धिकर्म वैक्रियाङ्गोपाङ्गनाम । तादृशमेवाहारकशरीरसम्बन्धिकर्म आहारकाङ्गोपाङ्गनाम । इमानि आदिमत्रितनूपाङ्गानि । तैजसकामणोस्त्वात्मप्रदेशतुल्यसंस्थानत्वान्न भवन्त्यङ्गोपाङ्गानि । एवमेकेन्द्रियशरीराणामप्यङ्गोपाङ्गानि न भवन्ति । वनस्पत्यादिषु शाखादीनामङ्गत्वादिव्यवहारो न वास्तविकः, किन्तु भिनजीवस्य शरीराण्येव ते ॥ अस्थिरचनाविशेषस्संहननम् । उभयतो मर्कटबन्धबद्धयोरस्थ्नोः पट्टाकृतिनाऽपरास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकात्मकान्यास्थिविशिष्टत्वप्रयोजकं कर्म वर्षभनाराचम् । इदमादिमसंहननम् ॥ आकारविशेषस्संस्थानम्। सामुद्रिकलक्षणलक्षि
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy