________________
w
(१०)
तत्त्वन्यायविभाकरे तचतुर्दिग्भागोपलक्षितशरीरावयवपरिमाणसादृश्यप्रयोजकं कर्म समचतुरस्रसंस्थानम् , इदमादिमसंस्थानम् । तीर्थकराः सर्वे सुराश्चैतत्संस्थानभाजः॥
शरीरवृत्त्यालादजनकवर्णोत्पत्तिहेतुभूतं कर्म प्रशस्तवर्णनामकर्म । शरीरवृत्त्यालादजनकगन्धोत्पत्तिनिदानं कर्म प्रशस्तगन्धनाम । शरीरेष्वाह्लादजनकरसोत्पत्तिकारणं कर्म प्रशस्तरसनाम । शरीरवृत्त्यालादजनकस्पर्शोत्पादनिदानं कर्म प्रशस्तस्पर्शनाम । इमानि प्रशस्तवर्णचतुष्कशब्दवाच्यानि । तत्र शुक्लरक्तपीतनीलकृष्णाः पञ्च वर्णाः, आद्यास्त्रयः प्रशस्ताः । अन्त्यौ द्वावप्रशस्तौ । सुरभ्यसुरभिभेदेन गन्धो द्विविधः। आद्यश्शस्तः, अन्त्योऽशस्तः। रसः कषायाऽऽम्लमधुरतिक्तकटुरूपेण पञ्चविधः। आद्यास्त्रयश्शुभाः अन्त्यावशुभौ । स्पर्शोऽपि मृदुलघुस्निग्धोष्णकठिनगुरुरूक्षशीतभेदादष्टविधः । आद्याश्चत्वारः प्रशस्ताः, अन्त्यास्त्वप्रशस्ताः ॥
शरीरस्यागुरुलघुपरिणामप्रयोजकं कर्म अगुरुलघुनाम । सर्वेषां जीवानामेतत् । परत्रासप्रज्ञाप्रहननादिप्रयोजकं कर्म पराघातनाम । उच्छ्वासनि:श्वासप्राप्तिप्रयोजकं कर्म उच्छ्वासनाम | स्वरूपतोऽनुष्णानां शरीराणामुष्णत्वप्रयोजकं कर्म आत