SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अजीवनिरूपणम् ( ५ ) पञ्चेद्रियमनोवाक्कायथलोच्छ्वासायूंषि दश । अनन्तज्ञानदर्शनचारित्रवीर्यात्मकाश्चत्वारो भावप्राणाः । स्पर्श कायोच्छ्रवासायूँष्ये केन्द्रियाणाम् | रसवाग्भ्यां सह पूर्वोक्ता द्वीन्द्रियाणाम् । घ्राणेन सहैते त्रीन्द्रियाणाम् । चक्षुषा सहैत एव चतुरिन्द्रियाणाम् । श्रोत्रेण सहामी असंज्ञिनाम् | मनसा सहैते संज्ञिपञ्चेन्द्रियाणाम् । अनन्तज्ञानदर्शनचारित्रवीर्याणि चत्वारि सिद्धानां भावप्राणाः ॥ निर्धूताशेषकर्मा असंसारी । स एव सिद्धो जिना - जिन तीर्थातीर्थादिभेदभिन्नश्चरमशरीर त्रिभागोनाकाशप्रदेशावगाही च ॥ इति जीवनिरूपणम् चेतनाशून्यं द्रव्यमजीवः । गत्यसाधारण हेतुद्रव्यं धर्मः । तत्र प्रमाणं जीवपुद्गलानां गतिर्बाह्यनिमित्तापेक्षा गतित्वात् जलस्थमत्स्यादिगतिवदित्यनुमानम् । असंख्येयप्रदेशात्मको लोकाकाशव्यापी च ॥ स्थित्य साधारण हेतु द्रव्यमधर्मः । प्रमाणञ्चात्र जीवपुद्गलानां स्थितिर्बाह्यनिमित्तापेक्षा स्थितित्वात्तरुच्छायास्थपान्थवदित्यनुमानम् । असंख्येयप्रदेशात्मको लोकाकाशव्यापी च ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy