SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ (४) तत्त्वन्यायविभाकरे द्रव्यादानक्रियापरिसमाप्तिराहारपर्याप्तिः । गृहीतशरीरवर्गणायोग्यपुद्गलानां शरीराङ्गोपाङ्गतया रचनक्रियासमाप्तिश्शरीरपर्याप्तिः । त्वगादीन्द्रियनिर्वतनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः। श्वासोच्छवासयोग्यद्रव्यादानोत्सर्गशक्तिविरचनक्रियासमाप्तिः श्वासोच्छ्वासपर्याप्तिः । भाषायोग्यद्रव्यपरिग्रहविसर्जनशक्तिनिर्माणक्रियापरिसमाप्तिर्भाषापर्याप्तिः । मनस्त्वयोग्यद्रव्याहरणविसर्जनशक्तिजननक्रियापरिसमाप्तिमनःपर्याप्तिः । आत्मनः पौगलिकक्रियाविशेषपरिसमाप्तिः पर्याप्तिः ॥ स्वस्वयोग्यपर्याप्तिपूर्णत्वभाजः पर्याप्ताः । स्वस्वपर्याप्तिपूर्णताविकला अपर्याप्ताः ।। तत्रैकेन्द्रियस्याद्याश्चतस्रः। द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां पञ्च । संज्ञिपञ्चेन्द्रियाणां षट्पयाप्तयः ॥ सूक्ष्माश्च निगोदादिवर्तिनः । बादराः स्थूलपृथिवीकायिकादयः । द्वीन्द्रियाः क्रिम्यादयः । त्रीन्द्रियाः पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः। असंज्ञिपञ्चेन्द्रिया मनोहीना अगर्भजा मीनादयः । संज्ञिपश्चेन्द्रिया देवमनुजादयः। एत एव प्राणिनः॥ तत्र प्राणा द्रव्यभावभेदेन द्विविधाः। द्रव्यप्राणाः
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy