________________
Shri Mahavir Jain Aradhana Kendra
३०४
www.kobatirth.org
सटीकतार्किकरक्षायाम्
pa
अतदाकारो वा धर्मेौ न धर्मिणस्तदाकारतामापादयतीति । तन्न धर्म एव हि धर्मिण आकारः न तु तेनापाद्यमर्थान्तरमस्ति ततश्चायुक्ताङ्गत्वं तदाकारापादकत्वस्यायुक्तस्याङ्गीकारात् । कथं धर्मिणो भिन्न आकारः स्यादिति चेत् न भिन्नस्यैवाकारत्वात् । न चातिप्रसङ्गः स्वभावतो व्यवस्थानात् । काल्पनिक धर्मधर्मिभावमभ्युपगच्छतापि काल्पनिकस्यापि भेदस्यावश्याभ्युपगमनीयत्वात् । न हि स्वयमेव स्वस्य धर्मे भवति श्रात्माश्रयत्वप्रसङ्गात् स्वव्याघातश्च । इदमसाधकमित्यत्रासाधकत्व योगाद साधकं तत्किं तदाकार मतदाकारं वा भिन्नमभिन्नं वा कार्यमकार्य वेत्यादिविकल्पप्रवृतेर्दुवारत्वात् । एवं हेतुदृष्टान्त
६६८
Acharya Shri Kailassagarsuri Gyanmandir
तथाहीत्यादिना । अतदाकार इति । अनित्यत्वादिधर्मरहितस्तदिना अनित्यत्वादिधर्मेौ न धर्मिणमनित्यत्वादियुक्तं करोतीति तदुक्तं पूर्वमित्यर्थः । कथं धर्मिण इति स्वरूपशब्दपर्यायः ततो न विरोध इत्यर्थः (?) । भिन्नस्याकारत्वे सर्वस्य सर्व एवाकारः स्यादित्यत्राह । न चातिप्रसङ्ग इति । स्वभावत इति । शरीरिणो भिन्नस्य शरीरत्वे ऽपि यथा घटपटादीनां शरीरत्वाभावः एवं भिन्नेषु कश्चिदेवाकारो न तु सर्व इति भावः । काल्पनिकमिति । धर्मधर्मिणाः भेदानवस्थानादभेदे धर्मधर्मिभावाभावान्न वास्तवः कश्चिधर्मधर्मिभावोऽस्ति किं तु काल्पनिक इति वदता बौद्धादिनेत्यर्थः । भेदानभ्युपगमे बौद्धमाह । न हि स्वयमेवेति । आत्माश्रयत्वप्रसङ्गात् आत्माश्रयं स्वमाश्रित्य स्वस्याव
For Private and Personal Use Only