Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi

View full book text
Previous | Next

Page 412
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्याननिरूपणम् Acharya Shri Kailassagarsuri Gyanmandir મહા यदूषणस्यादूषकत्वेनासाधनापादानात् अयथानुवादे च दूषणेोपादानाद्विप्रतिपन्तेः । एकदेशानुवादे च तथा एकदेशदूषणे तु समुदायस्यादूषितत्वात् । न ह्यनित्यत्वे साध्ये ऐन्द्रियकत्वमात्रस्यानैकान्तिकत्वेन गुणत्वेन विशेषितस्याप्यनैकान्तिकता स्यात् । सर्वनाम्नानुवादे ऽपि प्रकृतस्य भूयस्त्वेन सन्देहानतिक्रमेणा तूष्णीम्भावाविशेषात् । न च दूषणस्वरूप योग्यतया दूष्यविशेषनिश्चयः । प्रसिद्धत्वादिना सर्वस्यापि दूष्यत्वात् । योग्यमेवायं ब्रवीतीत्यनिश्चयाच । दूष्यमात्रमेवानुभाषणीयम् न तु सर्वं वादिवाक्यम् For Private and Personal Use Only दानस्य वादिवाक्ये दृष्यमात्रानुवादस्य । असाधनोपादानार्थे दृष्यप्रतिक्षेपासमर्थदूषणापादानरूपविप्रतिपत्तेरिस्यर्थः । व्यधिकरणत्वेन वादिसाधनदूषणबुझा तद्यतिरिक्तमनूद्य दूषणवचनादित्यर्थः । तथेत्यविशिष्टप्रतिपत्तिमुपपादयति । गुणत्वेनेति । गुणत्वे सत्यैन्द्रियकत्वादित्युक्तस्येत्यर्थः । सन्देहानतिक्रमेष प्रकृतेषु मध्ये अस्यायं दोषो नान्यस्येति निर्णयकाभावेन । न च दूषणस्वरूपेति । विप्रतिपन्नमुपलब्धिमत्कारणमित्यत्र विप्रतिपन्नस्यानेकत्वे sपि यथा साध्यविशेषेोपादानेन तद्विशेषसिद्धिरेवं दूषणस्वरूपविशेषसामर्थ्याद् दृष्यविशेषसिद्धिरिति न वाच्यं दूषणस्य साध्यवदन्यताश्रयावृत्तित्वाभावादित्यर्थः । योग्यमेवेति । दूषणयोग्यं प्रत्ययं प्रतिवादी दूषणं व्रते नान्यं प्रतीति वादिनो निश्चयाभावाच न विशेषनिश्चय इति MEE

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427