Book Title: Syadvada Manjari
Author(s): Jagdishchandra Jain
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
स्याद्वादमञ्जरीके अवतरण ( १) न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः ॥
[छान्दोग्य उपनिषद् ८-१२] यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दु:खव्यावृत्तिन विकल्प्यते ।। धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मुलभूतौ च तावेव स्तंभौ संसारसद्मनः ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्तः इत्यसो मुक्त उच्यते ॥ इच्छाद्वेषप्रयत्नादि भोगायतनबंधनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥ तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ।। ननु तस्यामवस्थायां कीदगात्मावशिष्यते । स्वरूपकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणः ।। ऊर्मिषटकातिगं रूपं तदस्याहुर्मनीपिणः । संसारवंधनाधीनदुःखक्लेशाद्यदूपितम् ॥ कामक्रोघलोभगवंदंभहर्षा-ऊमिपटकमिति ।
[जयन्त-न्यायमंजरी पृ. ५०८] सूत्रं तु सूचनाकारि ग्रंथे तन्तुव्यवस्थयोः ।
[हेमचन्द्र-अनेकार्थसंग्रह २-४५८] उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् [ ] कारणं द्विविधं ज्ञेयं वाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दात्रेण मेरुं गच्छति चेतसा॥ [लाक्षणिक] नागृहीतविशेषणा विशेष्ये वुद्धिः [ *सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः ।। [भगवद्वीता] वरं वृन्दावने रम्ये क्रोष्ट्रत्वमभिवांछितम् । न तु वैशेषिकी मुक्ति गौतमो गन्तुमिच्छति ॥ [ ] मोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तमः [ ] नळूमि य छाउमथिए नाणे [ आवश्यक पूर्व विभाग ५३९] पुण्यपापक्षयो मोक्षः
[ आगमवचन]
श्लोक ९ सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वम् । नान्यत्र शरीरस्योपभोगायतनत्वात् । अन्यथा तस्य वैयर्थ्यात् [श्रीधर-न्यायकन्दली ] *नानात्मनो व्यवस्थातः 1 [वैशेषिकसूत्र ३-२-२०] आकाशोऽपि सदेशः सकृत्सर्वमूर्ताभिसंबंधार्हत्वात्
[ द्रव्यालंकार

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454