Book Title: Syadvada Manjari
Author(s): Jagdishchandra Jain
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायां
पृष्ठ
१३७
१३७
१३७
१३८
१३८
१३९
मुलप्रकृतिरविकृतिर्महदाद्या प्रकृतिविकृतयः सप्त । षोडकश्च विकारो न प्रकृतिन विकृतिः पुरुषः ॥
[सांख्यकारिका ३] अमूर्तश्च तनो भोगी नित्यः सर्वगतोऽक्रियः अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥ शुद्धोपि पुरुषः प्रत्ययं बौद्धमनुश्यति तमनुपश्यन् अतदात्मापि तदात्मक इव प्रतिभासते [व्यासभाष्य ] सर्वो व्यवहर्ता आलोच्य............बद्धरसाधारणो व्यापारः
[ सांख्यतत्त्वकौमुदी २३] बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति । तदेव भोक्तृत्वमस्य न त्वात्मनो विकारापत्तिः
[वादमहार्णव ] विविक्ते दुपरिणती बुद्धी भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ [आसुरि] पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥
[विन्ध्यवासी] अपरिणामिनी भोक्तशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्ते च तवृत्तिमनुभवति [ व्यासभाष्य ] शब्दगुणमाकाशम्
[वैशेषिकसूत्र ] इष्टापूर्त मन्यमाना वरिष्ठ नान्यच्छयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति ।।
[मुण्डक उपनिषद् १-२-१०] रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥
[सांख्यकारिका ५९]
श्लोक १६ x उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात् [न्यायप्रवेश पृ०७] x उभयत्रेति प्रत्यक्षेऽनुमाने च तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलम् कार्यम् ।
कुतः । अधिगमरूपत्वादिति परिच्छेदरूपत्वात् । तथाहि । परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदादृतेऽन्यद् ज्ञानफलम्, भिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति ।
[हरिभद्रसूरि-न्यायप्रवेशवृत्ति पृ. ३६ ] द्विष्ठसंबंघसंवित्तिकरूपप्रवेदनात् ।। द्वयोः स्वरूपग्रहणे सति संबंधवेदनम् ।। [
१४०
xइन अवतरणोंके लिये मुनि हिमांशुविजयजीने मेरा ध्यान आकर्षिक किया है।

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454