________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
प्रत्येकं, मन्नत्ति मननं चिंतनं पर्यालोचनमिति यावत्, प्रत्येकमेव विद्वान्, प्रत्येकं वेदनाः, इति खलुत्ति - इति पूर्वोक्तप्रकारेण खलु अमी ज्ञातिसंयोगा न त्राणाय न शरणाय, उत्पन्नपीडार्तिनिवारणं त्राणं, अनागतार्तिसंरक्षणं शरणं, यत: पुरुष एकदा ज्ञातिसंयोगान् विप्रजहाति, ज्ञातिसंयोगा वा पुरुषं परित्यजन्ति, तस्माद् अन्ये ज्ञातिसंयोगा: अहमन्यो अस्मि इति भावनीयं, एवं सति किमंग पुन: वयं अन्यैरन्यैः ज्ञातिसंयोगैः मूर्छा कुर्म:? मूर्छाकरणं न युक्तमित्यर्थः, इति संख्याय ज्ञात्वा वयं ज्ञातिसंयोगान् त्यक्ष्याम: परिहरिष्याम इति कृताध्यवसाया ज्ञाततत्त्वाः स्युः ॥४०॥ वैराग्योत्पत्तिकारणम् एवाह
से मेहावी जाणिज्जा बाहिरंगमेयं, इणमेव उवणीयतरागं तं (जहा)- हत्था मे, पाया मे, बाहा मे, ऊरू मे, सीसं मे, उदरं मे, आउं मे, बलं मे, वण्णे मे, तया मे, छाया मे, सोयं मे, चक्टुं मे, घाणं मे, जिब्भा मे, फासा मे, मैमाइ, जंसि वयाउ परिजूरइ, तं (जहा)- आऊओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ, सुसंधि विसंधीभवइ, वलितरंगे गाए भवइ, किण्हा केसा पलिआ भवंति, जंपि अ इमं सरीरगं उरालं आहारोवचियं एयं पि
K
Boनार्तिनि० २P०वारणं ३ BD ममाई ४JAM o आ संधि विसंधी B oआ वि विसंघी