________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
भगवान् आह- यो हि प्रत्याख्यानं गृह्णाति तस्माद् दीर्घायुष्का: प्राणिन: ते च नारक-मनुष्य-देवा द्वि-त्रि-चतु:-पञ्चेन्द्रियतिर्यञ्चश्च सम्भवन्ति ततः कथं निर्विषयं प्रत्याख्यानमिति, शेषं सुगमम् ॥२३।।
भगवं च णं उदाहु- संतेगइया पाणा समाउया जेहिं समणोवासगस्स आयाणसो (जाव णिक्खित्ते), ते सममेव कालं करेंति, करित्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि (वुच्चंति), ते तसा वि (वुच्चंति) ते महाकाया ते समाउआ, ते बहुतरगा जाव नो नेआउए।॥२४॥
इदं समायुष्कसूत्रं पूर्ववत्।।२४।।
भगवं च णं उदाह-संतेगइया पाणा अप्पाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे (जाव निक्खित्ते), ते पुव्वामेव कालं करेंति, करित्ता पारलोइयत्ताए पच्चायंति, ते पाणा०, ते तसा०, ते महा०, ते अप्पाउआ, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पा जेहिं समणोवासगस्स अप्पच्चक्खायं भवइ, इइ से महया जाव नो नेआउए।।२५॥
इदम् अल्पाऽऽयुष्कसूत्रमपि स्पष्टं, नवरं यावत् ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयः, त्रसेषु वा समुत्पन्ना: सन्तो