Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 289
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे सप्तमाध्ययनम् श्रीवीरः तम् उदकम् एवमवादीत्, यथासुखं देवानुप्रिय! मा प्रतिबन्धं धर्मान्तरायं कार्षीरिति, ततः स उदक: श्रीवीरान्तिके पञ्चमहाव्रतिकधर्मग्रहणाय उत्थितः, भगवताऽपि तस्य सप्रतिक्रमण: पञ्चमहाव्रतिको धर्मो अनुज्ञातः, स च तं धर्मं उपसंपद्य स्वीकृत्य विहरतीति, इति: परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, सुधर्मस्वामी स्वशिष्यान् इदमाह, तद्यथा- सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति।।४०॥ नालन्दीयाऽऽख्यमिदं सप्तममध्ययनं समाप्तं, तत्समाप्तौ च समाप्तोऽयं द्वितीयः श्रुतस्कन्धः, तत्सम्पूर्ती च संपूर्णेयं श्रीसूत्रकृताङ्गदीपिका।। अथ प्रशस्ति: निस्तन्द्रचन्द्रचारुणि चन्द्रकुले चरणचातुरीभाजः । विख्याततपेत्याख्या जगति जगच्चन्द्रसूरयोऽभूवन् ॥११॥ तेषां दोषांशमुषां सन्ताने सुकृतसञ्चयविताने । श्रीसोमसुन्दरगुरूत्तमाः क्षमासनमा अभवन् ॥२॥ तत्पट्टस्फुटकमलाभाले कालेयतिलकसङ्काशाः । श्री मुनिसुन्दरगुरव: कामितसम्पत्तिसुरतरवः ॥३॥ १B ०प्त्यर्थो २ BD क्षेमासं०

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300