Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Rs. बाल्येऽपि भारतीति प्रतीतिरुदपादि वादिवर्गे यैः । श्री जयचन्द्रमुनीन्द्राः पारीन्द्रास्ते परगजेषु ॥४॥
तत्पदविशदस्थाने स्थाने शृङ्गारसारतां भेजुः । श्रीरत्नशेखरा इति जगति यतः ख्यातिमापुस्ते ॥५।। तेषामनङ्कपट्टे गुणसट्टे प्रभावकषपट्टे । प्राप्ताधिकप्रतिष्ठाः श्रीलक्ष्मीसागरा: शिष्टाः ॥६॥ भर्साितकलिकालुष्या: शिष्यास्तेषां यथार्थनामानः । श्रीसुमतिसाधुगुरवः क्ष्मासुरभीकारसद्यशोऽगुरवः ॥७॥ तत्पट्टे प्रकटेप्सितपूरणचिन्तामणीयमानानाम् । लब्धाधिकमानानां सुहेमविमलाभिधानानाम् ॥८॥ सूरीन्द्रगच्छनायकपदवीप्राप्तप्रभाप्रतिष्ठानाम् । शिष्याणुर्गुण-शासन-जननी-तिथिसंमिते (१५८३) वर्षा॥९॥ विबुधजनप्रार्थनया स्वस्य स्मृतये परोपकृतये च । सूत्रकृताङ्गस्यैतां हर्षकुलो दीपिकामलिखत् ॥१०॥ का श्चित्प्रमाणयुक्तीप्रथयं नाऽत्र सुगमताहेतोः । तत एव नैव विहितो लक्षणसन्धिस्तथा क्वापि ॥११॥ सूत्राऽसंगतमत्राऽवादि कथञ्चिन्मया यदज्ञतया । तच्छोधयन्तु सुधिय: कृपया मात्सर्यमुत्सार्य ॥१२॥ ग्रन्थमितिरनुमिताऽत्र च, षट् च सहस्राणि षट् शताग्राणि । विबुधजनवाच्यमानो ग्रन्थोऽयं जगति जयतु चिरम् ॥१३॥
॥१४२॥
१B कांश्चित्

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300