Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम
सुगम, नवरं देसावगासियं त्ति- पूर्वगृहीतस्य दिग्वतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्तं योजन-गव्युतादिमानं करोति, तद्देशावकाशिकम् उच्यते, तथाहि पुरत्था पाईणंत्ति- पुरस्थित्ति- प्रातरेव प्रत्याख्यानावसरे दिगाश्रितम् एवंभूतं प्रत्याख्यानं करोति, यथा प्राचीनं पूर्वाभिमुखं पूर्वदिशि न तावन्मया अद्य गन्तव्यं, प्रतीचीनं पश्चिमायां दिशि दक्षिणस्यां उदीच्या उत्तरस्याम् एतावद् गन्तव्यम्, एवं प्रत्यहं प्रत्याख्यानं करोति, तेन च व्रतेन गृहीतपरिमाणात् परेण दंडो निक्षिप्तो वधस्त्यक्तः, ततश्च स श्रावक: सर्वजीवेषु क्षेमङ्करो अहम् अस्मि इति अध्यवसायी स्यात्, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसा येषु श्रावकस्य आदानत: प्रथमव्रताद् आरभ्य मरणान्तं दण्ड: त्यक्तः, ते त्रसा: स्वायुष्कं परित्यज्य तत्रैव गृहीतमानदेशे एव त्रसत्वेन प्रत्यायान्ति, गृहीतपरिमाणदेशे त्रसायुष्कं परित्यज्य त्रसेषु एव उत्पद्यन्ते, तेषु श्राद्धस्य सुप्रत्याख्यातं स्याद्, उभयथाऽपि त्रसस्य सद्भावादिति, शेषं सुगमम् ॥२६॥
तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव निक्खित्ते, ते तओ आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहि समणोवासगस्स अट्ठाए दंडे न निक्खित्ते अणट्टाए दंडे निक्खित्ते तेस पच्चायंति, ते पाणा वि वुच्चंति, ते तसा० ते चिर० जाव अयं पि भे देसे०॥२७॥ १P तसप्पाणा

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300