Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 276
________________ HANCHAR K ES - अहं न हन्तव्यो अन्ये हन्तव्याः, अहं न आज्ञापयितव्यो अन्ये आज्ञापयितव्या इत्यादीनि उपदेशवाक्यानि ददति, एवम्भूतास्ते कामासक्ताः किञ्चिदज्ञानतप:परा: कालं कृत्वा अन्यतरेषु आसुरीयेषु स्थानेषु किल्बिषिकेषु असुरदेवाधमेषु उत्पद्यन्ते अथवा प्राण्युपघातकोपदेशदातारो भोगमूर्छिता असूर्येषु नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यप्राणातिपातो न सम्भवति तथाऽपि भावप्राणातिपातस्य विरते: विषयतां प्रतिपद्यन्ते, ततो देवलोकाच्च्युता नरकादुद्वत्ता वा क्लिष्टपञ्चेन्द्रियतिर्यक्षु हीनमनुष्येषु वा एलमूकतया तमोरूपतया अन्धबधिरतया प्रत्यायान्ति, ते च अवस्थाद्वयेऽपि त्रसत्वं न व्यभिचरन्ति ततो न निर्विषयं प्रत्याख्यानं, एषु च द्रव्यप्राणातिपातोऽपि सम्भवति॥२२॥ अथ प्रकटमेव विरतिविषयम् आह भगवं च णं उदाहु-संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो०, ते पच्छामेव कालं करेंति, करित्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति, ते तसा वि (वुच्चंति) ते महाकाया ते चिरठिइया ते दीहाउआ ते बहुतरगा (पाणा) जेहिं समणोवासगस्स जाव नो नेयाउए भवइ।।२३॥ १B पारलोइत्ताए २ BD महाकाइया ते दीहाउआ अब ॥१३५॥ KHEL

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300