Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 251
________________ श्री सूत्रकृताङ्गदीपिका पेढालंपुत्ते पासावच्चिज्जे नियंठे मेतज्जो गोत्तेणं जेणामेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भयवं गोयमं एवं वयासी - आंउस भो गोयमा! अत्थि खलु मे केइ पएसे पुच्छियव्वे, तं च मे आउसो! अहादरिसियमेव वियागरेहि, सवायं भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी- अवियाई असो! सोच्चा निसम्म सम्मा जाणिस्सामो, सवायं उदए पेढालपुत्ते गोयमं एवं वयासी ॥ ५ ॥ तस्मिन् वनखण्डगृहप्रदेशे भगवान् गौतमो विहरति, तस्मिन् आरामे स्थितः, अथ उदकाऽऽख्यो निर्ग्रथः पेढालपुत्रः पार्श्वापत्यस्य पार्श्वशिष्यस्य अपत्यं शिष्यः स च मेदार्यो गोत्रेण जेणेव त्ति- यस्यां दिशि गौतमः तत्र आगत्य इदं प्राह- आयुष्मन् भो गौतम! अस्ति मम कश्चित् प्रदेश: प्रष्टव्यः, तं प्रदेशं मम यथा श्रुतं त्वया यथा दर्शितं श्रीवीरेण तथा व्यागृणीहि कथय, स चाऽयं भगवान्, यदि वा सह वादेन सवादं पृष्टः तमुदकं पेढाललघुपुत्रं एवम् अवादीत्, अपि च आयुष्मन् उदक! श्रुत्वा त्वदीयं प्रश्नं निशम्य च - अवधार्य गुणदोषविस्तारेण सम्यग् ज्ञास्ये अहम्, तद् उच्यतां विश्रब्धं त्वया स्वाऽभिप्रायः, सवादं सद्वाचं वा उदकः पेढालपुत्रो गौतमम् एवम् अवादीत्॥५॥ १ JAM आउसंतो २ BD प्रवेशे ३ P 'श्रुत्वा' इति नास्ति द्वि. श्रु. स्कन्धे सप्तामध्ययनम्

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300