Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 255
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे 2 सप्तामध्ययनम् वा श्रावकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां मृषावाद: स्यात्, गृह्णतां च व्रतलोपः, तदेवं अयमपि नो अस्मदीयो अङ्गीकार: किं भवतां न नैयायिको न्यायोपपन्नो भवति? अपि च आयुष्मद्रौतम! एष पक्ष: तुभ्यमपि रोचत।।७॥ सवादं भगवं गोयमो उदयं पेढालपुत्तं एवं वयासी, आउसंतो उदगा! नो खलु अम्हं एवं एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खल ते समणा वा निग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणोवासए, जेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमंति ताणि वि ते अब्भाइक्खंति, कस्स णं हेउं? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्त।।८॥ ___सवादं भगवान् गौतम: तम् उदकं पेढालपुत्रं एवमवादीत् - आयुष्मन् उदक! नो खलु अस्मभ्यं एतद् रोचते, यदिदं त्रसकायविरतौ भूतत्वविशेषणं तद् अस्मभ्यं न रोचते इत्यर्थः, एवं सति ये श्रमणा वा ब्राह्मणा वा एवम् आख्यान्ति ते यथार्थां भाषां न भाषन्ते किन्तु अनुतापिनीं भाषां भाषन्ते अन्यथाभाषणे हि परस्य अनुतापो भवति, ते अभ्याख्यान्ति- श्रमणोपासकान् असद्भूतदोषप्रकटनेन

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300