________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे 2 सप्तामध्ययनम्
वा श्रावकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां मृषावाद: स्यात्, गृह्णतां च व्रतलोपः, तदेवं अयमपि नो अस्मदीयो अङ्गीकार: किं भवतां न नैयायिको न्यायोपपन्नो भवति? अपि च आयुष्मद्रौतम! एष पक्ष: तुभ्यमपि रोचत।।७॥
सवादं भगवं गोयमो उदयं पेढालपुत्तं एवं वयासी, आउसंतो उदगा! नो खलु अम्हं एवं एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खल ते समणा वा निग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणोवासए, जेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमंति ताणि वि ते अब्भाइक्खंति, कस्स णं हेउं? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्त।।८॥ ___सवादं भगवान् गौतम: तम् उदकं पेढालपुत्रं एवमवादीत् - आयुष्मन् उदक! नो खलु अस्मभ्यं एतद् रोचते, यदिदं त्रसकायविरतौ भूतत्वविशेषणं तद् अस्मभ्यं न रोचते इत्यर्थः, एवं सति ये श्रमणा वा ब्राह्मणा वा एवम् आख्यान्ति ते यथार्थां भाषां न भाषन्ते किन्तु अनुतापिनीं भाषां भाषन्ते अन्यथाभाषणे हि परस्य अनुतापो भवति, ते अभ्याख्यान्ति- श्रमणोपासकान् असद्भूतदोषप्रकटनेन