________________
एवं ते परं पच्चक्खावेमाणा णाइयरंति सयं पइण्णं, णण्णत्थ अभिओगेणं गाहावइ चोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं निहाय दंड, एवामेव सइ भासापरक्कमे विजमाणे जे ते कोहा वा लोभा वा परं पच्चक्खावेंति, अयं पि भे नो देसे णो णेआउए भवइ, अवियाई आउसो गोयमा ! तुब्भं पि एवं एवं रोयई ? || ७ ||
एवं प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवं प्रत्याख्यापयतां च तदेव, एवं प्रत्याख्यानं कुर्वतां कारयतां च न स्वप्रतिज्ञालोप:, यथा णण्णत्थ इत्यादि- एवं गृहस्थः प्रत्याख्याति - त्रसभूतेषु वर्तमानकाले त्रसत्वेन उत्पन्नेषु प्राणिषु दण्डं वधं निहाय त्यक्त्वा प्रत्याख्यानं करोति, तद् इह भूतत्वविशेषणात् स्थावरपर्यायप्राप्तस्य वधेऽपि न प्रतिज्ञालोप:, नाऽन्यत्र अभियोगेन राजाद्यभियोगाद् अन्यत्र प्रत्याख्यानं, गृहपतिचोरविमोक्षणतया इति सम्यग् उक्तं, तस्माद् भूतत्वविशेषणाङ्गीकारे यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाभङ्गः, तथा त्रसभूता न हन्तव्या इति प्रतिज्ञावत: स्थावरहिंसायामपि न प्रत्याख्यानातिचार:, एवं विद्यमाने सति भाषायाः प्रत्याख्यानवाचः पराक्रमे भूतविशेषणाद् दोषपरिहारसामर्थ्ये एवं दोषपरिहारोपाये सति केचन क्रोधाद् वा लोभाद्
१ P अभिउगेणं
।।१२४ ।।