________________
श्री सूत्रकृताङ्गदीपिका
उदक एव आह- ‘ण्हमिति वाक्यालंकारे' एवं प्रत्याख्यानं कुर्वतां श्राद्धानां दुष्प्रत्याख्यानं भवति प्रत्याख्यानभङ्गसद्भावात्, तथा एवं प्रत्याख्यापयतां प्रत्याख्यानं कारयतां साधूनां दुष्टं प्रत्याख्या नदानं भवति, एवं प्रत्याख्यानं कुर्वन्तः कारयन्तश्च स्वां प्रतिज्ञाम् अतिचरन्ति अतिलङ्घयन्ति, कस्स णं तं हेउं कस्माद् हेतोः इत्यर्थः, प्रतिज्ञाभङ्गकारणम् आह संसारिया इत्यादि सांसारिका: खलु प्राणिनः स्थावरा अपि प्राणिनः त्रसतया प्रत्यायान्ति, त्रसाश्च स्थावरत्वेन इति, एवं सति प्रतिज्ञालोपः स्यात्, यथा नागरिको न हन्तव्य इति प्रतिज्ञा येन कृता स यदि उद्यानस्थं नागरिकं हन्यात् तदा तस्य किं प्रतिज्ञालोपो न स्यात् ?, एवमत्राऽपि येन त्रसवधनिवृत्तिः कृता स यदि तमेव त्रसं स्थावरकायस्थितं हन्ति तदा तस्य किं न भवेत् प्रतिज्ञालोपः ?, भवति एव इत्यर्थः, त्रसकायात् मुच्यमानाः स्थावरकाये उत्पद्यन्ते, स्थावरकायात् मुच्यमानाश्च सकाये, न च किञ्चिल्लिङ्गमस्ति येन ज्ञायते अयं त्रसो अभूत् पूर्वं स्थावरो वा इति, तेसिं च णंत्ति- तेषां त्रसानां स्थावरकाये उत्पन्नानां श्राद्धस्य आरम्भवतः स्थानमिदं स्थावराऽऽख्यं घात्यं स्यात्, एवं नागरिकदृष्टान्तेन त्रसमेव घ्नतः प्रतिज्ञालोपः स्यात् ॥ ६ ॥ उदकः पुनः स्वाभिप्रायम् आह
एवाहं पच्चक्खंताणं सुपच्चक्खायं भवइ, एवण्हं पच्चक्खावेमाणाणं सुपच्चक्खायं भवइ,
१ BDoख्यानं २P प्रतिज्ञातभ० ३ BD सकार्य
द्वि. श्रु. स्कन्धे सप्तामध्ययनम्