________________
अभ्याख्यानं ददन्ते, जेहिंत्ति- येष्वपि अन्येषु जीवेषु ये संयमयन्ति संयमं कुर्वन्ति, यथा- ब्राह्मणो मया न हन्तव्य इत्युक्ते यदा वर्णान्तरे तिर्यक्षु वा स्थितः तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दविशेषणाऽभावात्, एवं शूकरादिः न हंतव्य इत्यादि विशेषव्रतानि ते अभ्याख्यान्ति दूषयन्ति, कस्माद्धेतोः ? यस्मात्सांसारिकाः प्राणाः त्रसा: स्थावरत्वेन, स्थावराः त्रसत्वेन प्रत्यायान्ति, त्रसकायात् तदायुष्केन मुच्यमानाः स्थावरकाये स्थावरकायाच्च तत्तद्योग्यकर्मणा मुच्यमानाः त्रसकाये उत्पद्यन्ते तेषां त्रसकाये समुत्पन्नानां स्थानम् एतत् त्रसकायाऽख्यं अघात्यं अघातार्हं भवति, स्थूलप्राणिघातान्निवृत्तः श्राद्ध:, तन्निवृत्त्या च त्रसस्थानम् अघात्यं स्यात् तस्य तीव्राध्यवसायोत्पादकत्वात् लोकगर्हितत्वाच्च, स्थावरकायाच्च अनिवृत्त इति, तत् स्थानम् अस्य अघात्यमिति ॥८॥
उदक आह
सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी- कयरे खलु आउसंतो गोयमा ! तुब्भे वयह तसपाणा तंसपाणा ? सवायं भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी- आउसंतो उदगा! जे तुम्हे वयह तसभूया पाणा तसभूया पाणा ते वयं वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुब्भे वयह तसभूया पाणा तसभूया पाणा, एए संति दुवे ठाणा एगट्ठा,
१ JAM तसा आउमण्णहा!
।। १२५ ।।