Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag
Author(s): Harshkulgani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 262
________________ र विप्पमुच्चमाणा सव्वे तसकायंसि उववति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं घत्त१२॥ सवादम् उदको गौतमम् अवादीत्- हे गौतम! नास्ति स कश्चित् पर्याय: यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य दण्डो वधो निक्षिप्त: परित्यक्तः स्यात्, कोऽर्थः? - श्राद्धेन त्रसमुद्दिश्य प्रत्याख्यानं कृतं, संसारिणां च अन्योऽन्यगमनसंभवात् त्रसा: सर्वेऽपि स्थावरत्वं प्राप्ताः तदा त्रसानाम् अभावात् निर्विषयं प्रत्याख्यानम् इत्यर्थः, कस्स णंत्ति-केन हेतुना इदम् उच्यते? सांसारिका: खलु प्राणा: स्थावरा: त्रसतया, तसा अपि स्थावरतया प्रत्यायान्ति, स्थावरकायाद् विप्रमुच्यमाना: स्वाऽऽयुषा सर्वे निरवशेषा: त्रसकाये समुत्पद्यन्ते *त्रसकायादपि तदायुषा मुच्यमानाः सर्वे स्थावरकाये समुत्पद्यन्ते*, तेषां त्रसानां स्थावरकायोत्पन्नानां स्थानमेतद् घात्यं, यथा केनचित् प्रतिज्ञातं मया नगरनिवासी न हंतव्यः, तच्च उद्वसितं नगरं ततो निर्विषयं प्रत्याख्यानम्, एवमत्राऽपि त्रसानाम् अभावानिर्विषयत्वमिति॥१२॥ अथ गौतमः प्राह सवायं भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी- णो खलु आउसो! अस्माकं वत्तव्वएणं, तुब्भं चेव अणुप्पवाएणं अस्थि णं से परियाए जम्मि समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं ॥१२८॥ ** एतदन्तवर्ती पाठ: B प्रतौ नोपलभ्यते १PBD जं नं

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300