Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ जून २००८ आयातोऽस्मि कुतः स्थानद्गन्तव्यं क्व पुनर्मया ? । सुखदुःखविधौ हेतुः को वा तत्र भविष्यति? ॥ १० ॥ पुण्यं पापमिहोपात्तं ध्रुवं परत्र भुज्यते । इति मत्वा महाभाग ! प्रमादो नैव युज्यते ॥ ११ ॥ क्वेदं ते मानुषं जन्म चिन्तितार्थप्रसाधकं । धर्मसाधनसामग्री कासौ सर्वापि हस्तगा ।। १२ ।। तूर्णं तूर्णं तु धावंस्त्वं, कृत्यकोटिसमाकुलः । विस्मृत्य पृष्टतः कोटी, पुरः पश्यसि काकिनीम् ।। १३ ।। सूरः(रोऽ) कातरतां यातो जैनैरूचे स उत्तमः । एतद्द्वयविहीनस्तु मध्यमः प्रणिगद्यते ॥ १४ ॥ मिथ्यादृक्, श्रावको, भव्य-श्चारुचारित्रवान् यतिः । जानीहि व्यवहारेण, मध्यमोत्तमहीनकान् ।। १५ ।। के के वैराग्यसंवेगौ नाख्यान्ति घोषयन्ति च । व्यङ्ग्यौ तौ बाष्परोमाञ्चैः पुण्याद्वर्षेषु कस्यचित् ।। १६ ॥ वर्षेपि बहुशः स्यातां नित्यं तौ वा महात्मनः । उत्थायोत्थाय तस्याऽऽस्यं द्रष्टव्यं पुण्यमिच्छुभिः ।। १७ ।। जानन्तः शतशो व्यर्थं शमादेवं हवो (शमादेर्बहवो ?) जनाः । यतो वैराग्यसंवेगौ तमर्थं तु न जानते ॥ १८ ।। दैवादात्मन्नहं जाने प्रमादीति यदि स्वकं । तथाप्युद्यन्तुमासेव्यः सदा स्वान्तेन कन्दलः ॥ १९ ।। माऽवधीरय मे वाचं कुरु किञ्चित्तथाविधम् । जन्मान्तरं गतो येन वत्स वत्स ! न शोचसि ॥ २० ॥ हंहो चेतः ! प्रकटविकटं मोहजालं किमेतच्छून्यालापैः प्रलपितमिदं कार्य हीनं विजाने । स्मारं स्मारं किमिति मुषितं सुप्रसिद्धं यदेतत् भोज्यातस्य क्षुदपगमनं दृष्टमात्रे न भोज्ये ।। २१ ।। मज्जिह्वायै ततश्चेतो यच्छादेशं सदाशयः । हित्वा कण्डूलतां वक्तुं मूकत्वं येन सेवते ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66