Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४४
कायेनापि हि संनतिं विदधता पञ्चाङ्गभङ्गस्पृशा स श्री शंखपुरस्थपार्श्व ! लभते लोकद्वये निर्वृतिम् ।। ३ ।। आधिव्याधिसमस्तकुष्टपिटकश्वासार्तिकण्डूज्वरप्रेतोद्भूतजलोदरप्रभृतयो ये सन्ति रोगाः क्षितौ । यद्वत्तीव्रतमांसि यान्ति विलयं मार्तण्डतेजस्ततेस्तद्वत्तेऽपि यजु(यु)स्तव स्मृतिवशाच्छंखेश्वरस्थ प्रभो ! ।। ४ ।। हेलास्फालितकुम्भिकुम्भदलनप्रोद्भूतगर्वोद्धुरं दृष्यं(श्य)तं किल कोऽपि कोपितममुं सिंहं निहन्तु क्षमः । त्वां पार्श्व ! स्तुवता प्रतापकलने त्वं येन तुल्यः कृतः खद्योतं स रवेः समं वितनुते शंखेश्वरस्थ प्रभो ! ।। ५ ।। धृत्वादौ प्रणवं सुनादकलितं मायाख्यबीजान्वितं पर्यन्ते च नमस्ततो निजयुतं काम्यार्थसम्पादकम् । हर्षोल्लासवशेन शुद्धमनसा यद्यस्ति सत्यं वचो विज्ञप्ति: फलदा तदा मम भवेच्छंखेश्वरस्थ प्रभो ! ।। ६ ।। दिग्भ्यः क्षुभ्यदबिभ्यदं च न धिया भक्तिं दधद्वन्धुरां प्राप्याभ्यर्थितमर्थसार्थमसकृद्यति नन्तुं जनः । आनन्दामृतसिन्धुवीचिजनकं नित्यं नृणां पश्यतां तं त्वां स्तौमि मुदा शशाङ्कसदृशं शंखेश्वरस्थ प्रभो ! ॥ ७ ॥ लुभ्यल्लोलविलासकेलिललनासंभोगरंगस्पृशः श्रुत्वा तेऽपि तव प्रभावमतुलं - - ति द्रष्टुं भृशम् । हित्वा वेश्मकथां प्रथामवितथा सद्ध्यानधर्म्य दधद् वक्तुं कश्चिदलंगु - - मु भवेच्छंखेश्वरस्थ प्रभो ! ॥ ८ ।। स श्री पार्श्व ! मम प्रकारवशतः किं वास्तु भावस्तवा ।* दद्याद्वयः (?) पुरुषागता जनततेः शंखेश्वरस्थ प्रभो ! । दृश्यद्वेषगजेन्द्रदर्पदलनप्रादुर्भवद्विस्मयं
प्रोद्यत्कर्मकुरङ्गभङ्गजनकं शार्दूलविक्रीडितम् ।। ९ ॥ * स मम संबन्धी उल्लासरूपविच्छित्तिवशात् भावौस्तु ममैवयः कु० सार्दू किंवा पार्श्व तव
संबंधी ऽस्तु प्रशब्द्वशात् प्रभावः यः पुरु० कु० सार्दू० (ताडपत्रप्रतिगतेयं टि०) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66