Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 25
________________ 25 प्राथितवान् । देवभक्त्या तद्दलं जीवन् मुकं अनुचरीभूतं पट्टेऽभिषिक्तः सर्वैः सम्भूय । जातो महाराजा श्रावकश्च । भुक्त्वा राज्यं मृतः स्वर्ग गतः । अद्भुतचरिते चरिते, स्तम्भनाथस्य दत्तजयवाद । नरकान्तनामनृपतेरेकादशमप्रबन्धोऽयम् ।। ***** (प्रबन्धः १२) द्रव्यभावतमसां विनाशनं, द्रव्यभावमहसां प्रकाशनम् । भक्तिभारनतपाकशासनं, तावकं शिरसि मेऽस्तु शासनम् || सा धन्य रसना नृणां, स्तौति या स्तम्भनेश्वरम् । सैव प्रभा रवेः श्लाघ्या. न्या पुष्णाति दिनश्रियम् ।। ।। नक्तमालदेशे श्रीमकुरनगरे श्रीभीमसेनो राजा । हेमासना कलत्रं च । तत्रान्यदा च श्रीबुद्धिसागरसूरिनामानो धर्मगुरवः ऐयरुः । साऽपि राजा वन्दित्वा तं गुरुं धर्म पप्रच्छ । अहं शत्रुञ्जये तीर्थयात्रां कतुं भगवन्नालं, अन्तरा राक्षसदेशमध्यागमनोपद्रवभयेन । तता क्षेमङ्करनामदेवप्रसादबलेन करिष्यसि त्वं तीर्थयात्रां भो राजन् ! । हे भगवनहं कथं तं देवं ज्ञास्यामि ? क्वास्ते स देवः? । राज्ञोक्तेरनन्तरं गुरुरुवाच 'मानुषोत्तरपर्वते सहस्रभुजविराजितया त्रिभुवनस्वामिनी नामदेव्या समुपास्यमानोऽस्ति । कालवशात् श्रीसङ्घकायोत्सर्गबलेन शासनदेवी त्वां तत्र नेष्यति । त्वयि तत्र स्थाने गते श्रीसङ्घस्य निद्रा समेष्यति । इदमभिज्ञानं कार्यसिद्धयै ज्ञातव्यम् । त्वमपि हे पृथ्वीपते ! तत्र स्थानके कृताष्टाह्निकोत्सवः समाराधनप्राप्तदेवप्रसादः प्राप्तवरः सम्पूर्ण मनोरथः तद्देववैयावृत्त्यकरदेवगण निर्मापितद्वादशयोजनप्रमाणप्रलम्बनवपृथुलजङ्गमसुवर्णवप्रमध्यगतः समेत्य स्वपुरे चतुर्विधेन श्रीसङ्घन समं सिद्धक्षेत्रमहातीर्थमहायात्रां महाभक्त्या महाद्रव्यव्ययेन निरन्तरविधीयमा[न]जिनशासनप्रभावनारञ्जितचतुर्विधदेवनिकायबलेन महामहोत्सवेन निरुपद्रवः अन्नपानीयतृणेन्धनादिना सुखी सन् व्याघुट्य स्वनगरमायास्यसि । त्रिभुवनजनकुतुकमिदं अदृष्टपूर्वं करिष्यसि त्वम् । तेनाऽपि भुजा सुगुरूपदशे तत्सर्वं तथा निर्ममे 1 इत्थं कृते श्रीजिनशासनप्रभावना भूतले उद्भताऽभवत् । मिथ्यात्वं सर्वत्राऽपि सम्यक्त्वसहस्रकिरणादयेन हिमवज्जगाल । कल्पद्रुमावतारतुल्येन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60